पृष्ठम्:आर्यभटीयम्.djvu/61

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकः २ ] संख्याविन्यासे परिभाषा 1

तयोर्दश'गीतिकासूत्रेण कृत्स्नं बीजमुपदिष्टम् 2। न्यायमार्गश्च कालक्रिया-गोलपादाभ्यामशेषतो दर्शितः । तत्परिकरत्वादेव गणितस्य बीजतो न्यायतश्च ज्याधोर्पदेशसूत्रेण गणितपादेन 3 च यावदपेक्षं श्रभिधानमित्यवगन्तव्यम् । बीजोपदेशेनैव वस्तुत्रयाभिधानस्य परिसमाप्तत्वात् तत्प्रतिपादकप्रबन्धारम्भ एव तदभिधानप्रतिज्ञा च संगच्छत इति । १ ।।

                     [संख्याविन्यासे परिभाषा]                                        

श्रथ युगभगणादिसंख्योपदेशं संक्षेपेण करिष्यन् श्राद्यएन गीतिसूत्रेण तदुपयोगिनीं परिभाषामाह

वर्गाक्षरार्गी वर्गेऽवर्गेऽवर्गाक्षराणि कात् ङ्मौ यः ।

खद्विनवके स्वरा नव वर्गेऽवर्गे नवान्त्यवर्गे वा ॥ २ ॥      

गीतिसूत्राणि श्रविभक्तिकनिर्देशबाहुल्यात् पदविभागं प्रदश्यर् व्याख्यायन्ते-वर्गाक्षराणि, वगेर्, अवगेर्, अवर्गाक्षराणि, कात् , ङ्मौ, यः, खद्विनवके, स्वराः, नव, वगेर्, अवगेर्, नवान्त्यवगेर्, वा । ककारादीनि मकारपर्यन्तानि पञ्चविशति: वर्गाक्षराणि । यकारादीनि हकारपर्यन्तानि श्रेष्तौ अवर्गाक्षराणि ॥ संख्याविन्यसस्थानेषु विषमस्थानानि वर्गसंज्ञानि । समस्थानानि श्रवर्गसंज्ञानि 4 । ततोऽयमर्थः 5-वक्ष्यमाणेषु गीतिसूत्रेषु यानि संख्याप्रतिपादकानि वर्गाक्षराणि तानि विषमस्थाने स्थापयितव्यानि । यानि चावगाक्षराणि तानि समे । वर्गावगार्क्षरप्रतिपादिता संख्या विषमसमयो: स्थानयोः स्थापयितव्येत्यर्थः । तै: प्रतिपादिता 6 संख्या यदा नवातिरिक्ता' भवति8 तदा स्वस्मिन् स्वोपरिस्थाने च स्थापयितव्या, दशादिसंख्याया द्विस्थानस्थिति 9. स्वभावत्वात् । कात् वर्गाक्षराणां संख्या ककारात्प्रभृत्यवगन्तव्या । ककारमारभ्य ________________________________________________________________________________________ ध्याख्या -1. E.om. दश 2. C. मुपसृष्टम् 3. B. adds here सूत्रेण; A.B.C. omit च following. 4. E. Hapl.om. वर्गसंज्ञानि, [समस्थानानि श्रवर्गसंज्ञानि। ] 5. D.तत्रायमर्थः 6. B.om. प्रतिपादिता 7. E. नवसंख्यातिरिक्ता 8. C.om. भवति 9. B.C.om. स्थिति भार्यo-१