पृष्ठम्:आर्यभटीयम्.djvu/62

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१० गीतिकापादे [गीतिका०

यावती संख्या प्रयुक्तस्य वर्गाक्षरस्य मातृकापाठक्रमेण परिगृह्यते सा संख्या वर्गाक्षरस्येत्यर्थ: । तत्र ककार: प्रथमाक्षरत्वात् संख्याविशेषवचनाच्च एकसंख्यः, खकारो द्विसंख्य इत्यादिक्रमेण मकारः पञ्चविंशतिसंख्यो भवति ।

ननु वर्गाक्षराणां स्वरूपवत् ककारादित्वस्यापि लोकसिद्धत्वात् 'कात्' इत्येतदनर्थकम् । न । वर्गाक्षराणां संख्याप्रतिपादने कटपादित्वं, नञयोश्च शून्य त्वमपि प्रसिद्धम् । तन्निरासार्थं ‘काद्’ग्रहणम् । कात्प्रभृत्येव वर्गाक्षराणां संख्या, न टकरात् पकरात् च प्रभृति । कात् प्रभृति सर्वाणि संख्यां प्रतिपादयन्ति, न तु ञकार-नकारयोश्च शून्यत्वमित्यर्थः ।

श्रप्रवर्गाक्षराणां तु लोकेऽपि यकारस्यैवादित्वात् तदादित्वनियमस्य प्रयोजनाभावाद् यकारादित्वं नोक्तम् । किन्तु तेषामपि लोकप्रसिद्धिवशेनैकादिका संख्या प्राप्ता । तदपवादार्थमाह-ङ्मौ यः डकारमकाराभ्यां संहत्योक्तेन प्रकारेण या संख्या प्रतिपाद्यते सा यकारस्य संख्या । तत्र ङकार: पञ्चसंख्यः, मकारः पञ्चविंशतिसंख्यः । तयोर्योगसिंत्रशत्संख्य:। तेन वर्गस्थानापेक्षया त्रिंशत्संख्यो यकार:, स्वस्थानापेक्षया त्रिसंख्यः । एवं यकारस्य त्रित्वविधानात् तदुत्तरेषां रेफादीनां चतुरादिसंख्यत्वं सिद्धम् । तेन रेफश्चतुस्संख्यः, लकारः पञ्चसंख्यः इत्याद्यवगन्तव्यम् ।

ननु ङ्म इत्यनेन यदि यकारस्य त्रिसंख्यत्वमुच्यते, तहि 'गो य:' इति वक्तव्यम् , गसंख्यो यकारः । यथा गकारः स्वस्थाने त्रिसंख्यः, एवं यकारोऽपि स्वस्थाने त्रिसंख्य इत्यर्थः । तत् किमर्थं 'ङ्मौ य:' इत्यधिकोक्तिरिति । उच्यते-संयुक्तैरपि वर्गावर्गाक्षरैः संख्या प्रतिपादयिष्यत इत्येतज्ज्ञापयितुं ङ्म इति ग्रहणं वेदितव्यम् ।

व्याख्याT-1. Gap for [स्य to वर्गाक्षर]स्येत्यर्थः, next line ; E. प्रयुक्ता 2. E. परिगण्यते 3. B.C. स्येत्यवगन्तव्यः 4. E. विशेषावचनाच्च 5. D. Gap for [ इत्यादि to ननु वर्गाक्षराणां ] स्वरूपवत् , next line. 6. B. C. add here मकारपयंन्ता 7. D. Gap for शून्य 8. E. नकार-अकारयोश्च 9. A. B. C. नियमस्याप्रयोजनाद् 10. B. C. प्रसिद्धेनैकादिका 11. B. ङकारमकारयो: या संख्या ; C, ङकारमकारयोः संहत्या या संख्या सा यकारस्य संरया ।