पृष्ठम्:आर्यभटीयम्.djvu/60

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ गीतिकापादः

[ङ्लाचरणम्‌ |

श्रथः श्राचायर्यिभटो दशगीतिभ्मारभमाणः तद्धिघ्नोपशान्तये भगवते स्वयम्भूवे प्रणामं कृत्वा तत्प्रतिपा्यानि वस्तुनि भ्रायंया निदिशति--

प्रशिपत्यैकमनेकं कं॑सत्यां देवतां परं ब्रह्म । आयेभटस्त्रीणि गदति मणितं कालक्रियां गोलम्‌ ॥ १॥

कारणरूपेणक, कार्यरूपेणानेकम्‌ 1 सत्यां देवताम्‌- देव एव देवता । सत्यः पारमाथिकः* । स्वयम्भूरेव पारमार्थिको देवः । भ्रन्ये देवास्तत्सृज्यत्वेन श्रपारमाथिकाः। षरं बरह्म जगतो मूलकारणम्‌ । एवंभूतं कं स्वयम्भुवं श्रणिपत्य आयंभटस्त्रोणि गदति ब्रवीति । "रामो द्विर्नाभिभाषते, (रामायणम्‌ २.१६.१९), "कौटिल्येन कृतं शास्त्रम्‌” (ब्र्थशास्तरम्‌ , १. १. १९) इतिवद्‌ ्रात्मन एवायं परोक्षरूपेण निर्देशः । श्रारभ्यमाणस्य' सिद्धान्तस्य स्वायम्भुवत्वात्‌ , तदारा- धनलब्धत्वाच्च तत्सिद्धान्तरहस्यानां, तत्प्रणामः कृतः । कानि पुनस्तानि° व्रीणीत्याह-- गणितं, कालक्रिया, गोलमिति । एतानि पूर्वमेव व्याख्यातानि । (पश्य प° ५-७) । गणितविशेषत्वेन गणितशब्दगृहीतयोरपि कालक्रिया गोलयोः पृथगुपादानं तयोः” शास्त्रे" प्रधानप्रतिपाद्यत्वज्ञापनारथम्‌ । ग्रत एव


व्याख्या -1. 8. तथा 2. ६. गीतिसूत्र 3. 4.8. ©. रम्ममाण

4. ©. सत्यं पारमार्थिकम्‌ ; 2 ७०? ए" सत्यः {० देवास्तत्सू]ज्यत्वेन, 15६ एल०ण.

5. 2. उभ णि [ प्रणि 1० कौटिल्येन | {५० ॥१९७ एल्‌०ण; ९ प्रणम्य

6. 4. प्रारम्भमाण ; 0.षट. श्रारभ्यमाण

7. 8. ग. स्य 8. ©. ग. तानि

9. 9. ध्र. पनस्त्रीणि तानीत्याह्‌ 10. 8. ¢. दयोः

11. ८. लास्व-