पृष्ठम्:आर्यभटीयम्.djvu/199

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः २४ ॥ स्वाहोरात्रविष्कम्भः ዊሶፉvs द्युव्यासार्धस्य* प्रमाणं भवतीत्युपपन्नम् । उक्तं च-‘यश्चैव भुजावर्गः कोटिवर्गश्च कर्णवर्गः सः' (गणित० १७) इति चतुर्विशं सूत्रम् ।। २४ ।। [ लङ्कोदयप्राणाः ] निरक्षराश्युदयप्राणानयनमाह इष्टज्यागुणितमहो रात्रव्यासार्धमेव काष्ठान्त्यम् । स्वाहोरात्रार्धहुतफ लमजाल्लड्रोदयप्राग्ज्या ॥ २५ ॥ इष्टज्या मेषवृषमिथुनान्तज्या, एकद्वित्रिराशिजीवा इत्यर्थः । ताभिर्गुणितं काष्ठान्त्यं, द्युव्यासार्धं काष्ठं चापं, तस्यान्तो नवतिरंशाः, तत्रभवं काष्ठान्त्यम् । मिथुनान्तद्युव्यासार्धमित्यर्थः । तस्मादिष्टद्युव्यासार्धेन विभज्य लब्धं फलं मेषात्प्रभृति लङ्कायामुदयजीवाः समपूर्वापरवृत्तगता भवन्ति, यस्मात्काष्ठं भ्रमति, तस्मात् । काष्ठीकरणमर्थसिद्धमिति नोक्तम् । एवं लब्धाश्च घटिकामण्डलनिष्पन्ना:* प्राणा भवन्ति । तद्यथा-राशिज्या 1719. द्विज्या 2978. त्रिज्या 3438. ग्राभिराप्ता श्रप्रपत्रक्रमज्याः क्रमेण 698, 1210, 1397. द्यव्यासाधर्गनि क्रमादाभिः 3336, 3218, 3141. ग्रन्तिमद्युज्याव्यासार्ध राशिज्यया हत्वा द्युव्यासार्धेनाप्तं चापीकृत्य लब्धं मेषान्तप्राग्ज्याकाष्ठ प्राणात्मकम् 1670, एवं द्विराश्यागतं चापं द्विराश्युदयप्राग्ज्याकाष्ठं भवति, 3465. श्रप्रस्मान्मेषान्तकाष्ठं विशोध्य शेषं वृषान्तकाष्ठम् 1795. एवं त्रिज्याहते तृतीयद्युव्यासार्धे तेनैव विभक्ते त्रिज्यैव भवति । तत्काष्ठात् 5400, श्रप्रस्माद्” राशिद्वयकाष्ठं विशोध्य शेषं मिथुनोदयकाष्ठम् 1935. एतान्येवोक्तक्रमेण कर्कटादीनाम् । एतान्येव षट् तुलादीनाम् षण्णाम् । उक्तं च शून्याद्रिरसरूपाणि भूतरन्ध्रमुनीन्दवः । पञ्चाग्निरन्ध्रप्रशशिनो मेषादीनां निरक्षजाः ॥ (लघुभास्करीयम्, 3.5) इति । sarsuT-1. A. C. kieer (C. add a) arreira 2. C. D. E. प्रमाणानयनमाह 3. E, sist for freqr: 4. A. C. om. एवं 5. D. E. om. 5400, EFT:HTT ASASASASAS ASMS S qqSSLLLSSTSS