पृष्ठम्:आर्यभटीयम्.djvu/161

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्लोकः २४ ] बुधशुक्रयोः स्फुटः to V [ बुधशुक्रयोः स्फुटः ] कवि-ज्ञयोः कर्मक्रममाह शीघ्रोच्चादधॉनं कर्तव्यमृणं धनं स्वमन्दोच्चे । स्फुटमध्यौ तु भृगु-बुधौ सिद्धान्मन्दात् स्फुटौ भवतः ॥ २४ ॥ शीघ्रोच्चशब्देन शीघ्रकेन्द्रनिष्पन्नं ग्रहफलचापमभिधीयते । आदित एव शीघ्रोच्चाद् बुधशुक्रयोर्मध्यमं त्यक्त्वा 'तत्केन्द्रेण शीघ्रन्यायोत्पादितात् फलचापाद् अर्धोनं ग्रर्धं स्वमन्दोच्चे क्षयो धनं वा कार्यम्' । ग्रत्र मध्यमग्रहं फलार्धन संस्कृत्य तस्मान्मदोच्चे शोध्ये, शोध्यस्यैव तत्संस्कार्यत्ववचनात्', शीघ्रर्वपरीत्येन मन्दवत् मन्दोच्चे संस्कारः कर्तव्यः' । तेनाद्ये पदे' फले तत्फलचापार्ध स्वमन्दोच्चे क्षयः । द्वितीये त्वाद्यन्तपादसंस्कृते तस्मिन् धनम् । तृतीये केवलमन्दोच्चे धनम् । ग्रन्त्ये तृतीयपदान्त'फलसंस्कृते तस्मिन्' क्षयः । एवं सिद्धान्मन्दात् स्फुटमध्यौ भृगुबुधौ स्फुटौ भवतः । एवंसंस्कृतं मन्दोच्चं मध्यमात् त्यक्त्वा तत्केन्द्रान्मन्दन्यायागत फलचापेन संस्कृतौ ज्ञभृग्वोर्मध्यमौ स्फुटमध्यमौ भवतः । ततः स्फुटमध्यमोनशीघ्रोच्चोत्पन्नफलचापेन* संस्कृतौ स्फुटमध्यमौ स्फुटौ भवतः । एवं ताराग्रहाणां स्फुटीकरणक्रमः° सूत्रकृतोक्त:" । चन्द्रादित्ययोस्तु मन्दोच्चमन्दपरिध्योरेवोक्तत्वात् तदेव कर्मफल'संस्कारानुक्तेः सकलेन फलञ्चापेन संस्कार इत्यनुत्तमपि गम्यते । सर्वग्रहाणां दिनस्पष्टभुक्तिरपि दिनद्वयस्फुटग्रहविवरम् । तत्र'* उत्तरदिनग्रहे'*ऽधिके स्पष्टभुक्तिः, पूर्वग्रहेऽधिके वक्रभुक्तिः इत्येवमादि सर्वं न्यायसिद्धत्वाद् ग्रनुक्तमित्यवगन्तव्यम् ।। इति चतुविशं सूत्रम् ।। २४ ।। EMET-1. B. om. II 2. D. कर्तव्यम् 3. A. B. संस्कार्यबचनात् 4. D. संस्कार्यं (?) कर्तव्यम् 5. E. तेनान्यपदे 6. A. पादान्त्य; B. C. पादान्त 7. E. om. तस्मिन् 8. E. adds tarist 9. D. स्फुटीकरणं 10. E. सूत्रकारेणोक्तम् 11. D. E. fiiqberTel (E. di-) 12. E. ĦT 13. D. sivä