पृष्ठम्:आर्यभटीयम्.djvu/162

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११० कालकियापादे [ काल ] [ ग्रहभ्रमणवासना ] प्रत्र 'कक्ष्याप्रतिमण्डलगा' इत्यादिकस्य सूत्राष्टकस्य (काल० 17-24) प्रर्थवैशद्यायेयं प्रक्रिया लिख्यते-

भूमध्यमेव मध्यं कृत्वा स्वस्वयोजनकर्णव्यासार्धेन निरक्षदिशा कृतं वृत्तं कक्ष्यामण्डलम् । तत्परिधिमध्यम् प्रन्त्यफलज्यातुल्यव्यासार्धकं कक्ष्यामण्डलदिशा स्थितमुच्चनीचवृत्तम् । तच्च मन्दशीघ्रकर्मणोरन्त्यफल ज्याभेदेन द्विविधम्, मन्दनीचोच्चवृत्तं शीघ्रनीचोच्चवृत्तं चेति । उभयमपि षष्टिशतत्रयाङ्गित कल्पयेत्। ततो भूमध्यादुपरि प्रन्त्यफलज्याप्रमाणमुत्सृज्य तत्र केन्द्रं कृत्वा कक्ष्यामण्डलव्यासार्धेन कृतं वृत्तं प्रतिमण्डलं नाम । तत्र मन्दनीचोच्चवृत्तमध्यं कक्ष्यामण्डलपरिधौ मन्दोच्चानुलोमग्रहभुक्तितुल्यमार्गं प्रतिदिवसं गच्छतीति कक्ष्यावृत्तपरिधौ यत्र यत्र मध्यमो ग्रहः तत्र तत्रोच्चनीचवृत्तमध्येमवतिष्ठत इत्यर्थः । ग्रस्य परिधौ मन्दस्फुटसिद्धो ग्रहः स्वमन्दोच्चात् प्रातिलोम्येन स्वमध्यकेन्द्रभोगं भुङ्क्ते, यतः कक्ष्योच्चनीचवृत्ते समविभक्ते तेन यावता कालेन मन्दनीचोच्चवृत्तमध्यं स्वकेन्द्रभगणभोगं पूरयति तावता तत्परिधिगो मन्दग्रहस्तद्वृत्तभगणाभोगं पूरयति ।

एतदुक्तम्–कक्ष्यावृत्ते स्वमन्दोच्चं छित्वाऽग्रतो गच्छत् स्वमन्दनीचोच्चवृत्तमध्यं यावत्कक्ष्यामण्डलमानेन स्वमन्दकेन्द्रभगणभोगं भुङ्क्ते तावन्मन्दनीचोच्चवृत्तपरिधिगो मन्दग्रहः तन्मानेनोच्चप्रदेशात् स्वमन्दकेन्द्रभोगं भुञ्जानः प्रतिलोमो दृश्यत इति । शीघ्रे तु कक्ष्यावृत्ते यत्र मन्दस्फुटो ग्रहः,

व्याख्या- 1. E. adds मध्य 2. E. निरक्षकृतवृत्तं 3. E. adds शिघ्रयोर्न्त्यफ़ल् 4. A. B. C. Hapl. om. of शिघ्रनीचोच्चवृतं 5. E. om. तत्र केन्द्रं कृत्वा 6. E. व्यासार्धकतं 7. A. B. C. वृत्तं कक्ष्यामण्डलं 8. A. B. om. व्रत्त्मध्य 9. E. om. स्व 10. B. Hapl. om of नीचोच्चवृते [...to नीचवृत्तम्] मध्यं, next line. 11. E. समं 12. E. कक्ष्यावृत्त for स्वकेन्द्र 13. A. तावत् 14. D. E. मन्दस्फुटग्रह: 15. D. E. add भवति 16. B. D. E. गच्हन् 17. E. Hapl. om. of कक्ष्यावृत्ते[... to कक्ष्यावृत्ते] स्वमन्द, three lines below.