पृष्ठम्:आर्यभटीयम्.djvu/113

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकः २१ ] सङ्कलितसङ्कलितधनम्। ♥ፄ [ सङ्कलितसङ्कलितघनम् ] सङ्कलितसङ्कलितधनानयनमार्ययाऽऽह'- एकोत्तराद्युपचिते गच्छाद्येकोत्तरत्रिसंवर्गः । षड्भक्तः स चितिघनः सैकपदघनो विमूलो वा ॥ २१ ॥ एकमुत्तरमादिश्च यस्यास्तस्या एकोत्तराद्युपचितेः सङ्कलितस्य चितिघनः सङ्कलित*सङ्कलितम् , गच्छाद्येकोत्तराणां त्रयाणां संवर्गः षड्भक्तो भवति । अथवा सैकस्य पदस्य घनः सैकपदेनैव रहितः षड्भक्तः चितिघनो भवति । उद्देशक:- पञ्चानामष्टकानां च वद सङ्कलनाघनम् । आद्यस्य न्यासः--गच्छः 5. एष एकोत्तरः 6. एषोऽप्येकोत्तरः 7. एषां त्रयाणां च संवर्गः 210, षड्भक्तश्चितिघनो भवति 35. अथवा सैकपदम् 6, अस्य घनः 216. एष मूलराशिरहित: 210, षड्भक्तम् तदेव फलम्' 35. द्वितीयस्य न्यासः-8, 9, 10. एषां संवर्गः 720, षड्भक्तः फलम् 120. इत्येकविंशं सूत्रम्। २१ । [ वर्ग-घनयोः सङ्कलितम् ] वर्गघनयोः सङ्कलितमार्ययाऽऽह सैकसगच्छपदानां क्रमात् त्रिसंवर्गितस्य षष्ठोंऽशः । वर्गचितिघनः स भवेत् चितिवर्गो घनचितिघनश्च ॥ २२ ॥ व्याख्या-1. C. नयनार्थमार्ययाऽऽह; D. नयनार्थमाह 2. E. Hapl. om. of TTsftt 3. D. Serq for qisuq