पृष्ठम्:आर्यभटीयम्.djvu/112

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९ गणितपाद्ये I गणित० एतदेव सूत्रम् 'इष्टगुण'मित्यनेनाधिकमवान्तरयथेष्टपदानयनसूत्रम् । उद्देशकः-श्रत्रैवोदाहरणे एकादशात् प्रभृति पञ्चपदानि गच्छः 5. एतद् व्येकम् 4, दलितम् 2, सपूर्वम् 12, उत्तरगुणम्' 132, समुखम् 139, इष्टैः पञ्चभिर्गुणितम् 695. षोडशात् प्रभृति नवपदानीष्टानि 9, व्येकम् 8, दलितम् 4, सपूर्वम् 19, उत्तरगुणम् 209, समुखम्। 216, इष्टेनानेन 9, गुणितम् 1944. एतद् नवपदधनम् । सर्वधनानयन* एव प्रकारान्तरमार्याशेषः ।। *अथवा अाद्यन्तं श्रादिधनमन्त्यधनं चाद्यन्तं, तत् पदार्धहतं गच्छार्धहतं, सर्वधनं भवति । प्रथमोदाहरणे श्रादिधनम् 2. ग्रन्त्यधनम् 14. ग्रनयोर्योगः I6. एतद् गच्छार्धगुणं तदेव सर्वधनम् 40. इत्येकोनविंश सूत्रम्। १९। [ गच्छानयनम् ] गच्छानयनमार्ययाऽऽह'- गच्छोऽटोत्तरगुणिताद् द्विगुणाद्युत्तरविशेषवर्गयुतात् । मूलं द्विगुणाद्यनं चोत्तरभजितं सरूपार्धम् ॥ २० ॥ ग्रनन्तरप्रकृतं सर्वधनमत्र विशेष्यम् । अष्टभिरुत्तरेण च गुणितात् सर्वधनात द्विगुणस्यादेरुत्तरस्य च यो विशेषः तद्वर्गेण सहितान्मूलं द्विगुणादिना रहितम् , उत्तरेण भजितम् , एकेन सहितम् , दलितं गच्छो भवति । प्रथमो'दाहरणे सर्वधनम् 40, एतदष्टगुणितम् 320, पुनरुत्तरगुणितम् 960. द्विगुणादिः 4. उत्तरम् 3. ग्रनयोविशेषः 1. ग्रस्य वर्गः 1. श्रनेन युतात्' पूर्वस्मात् 961, मूलम् 31, द्विगुणाद्युनम् 27, उत्तरभजितम् 9, सरूपम् 10, श्रप्रर्धम् 5. एष गच्छः ।। इति विशं सूत्रम् ।। २० ।। TTTTTT-1. C. om. aqq 2. D. fulgt 3. C. सर्वपदानयन 4. A. B. C. add the line 3,4arsser q&Tisci5. D. नयनमाह 6. D. E. पूर्वप्रथमो 7. E. युक्तात् 8. D. om. पूर्वस्मात्