पृष्ठम्:आर्यभटीयम्.djvu/114

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ गणितपाद्ये [ गणित• सैको गच्छः एको राशिः । सैक एव गच्छसहितो द्वितीयः । गच्छस्तृतीयः । एषां त्रयाणां वधस्य च' षष्ठोंऽशः स वर्गचितिघनो भवति । वर्गसङ्कलितं भवतीत्यर्थः । चितिवर्गः सङ्कलितस्य कृतिः । घनचितिघनः घनसङ्कलितं भवति । उददेशक:- पञ्चानां वर्गघनयोः पृथक् सङ्कलितं वद ॥ वर्गचितौ न्यासः-6, 11, 5. एषां त्रयाणां संवर्गः 330, षड्भक्तो वर्गसङ्कलितं भवति* 55. घनस्य चितौ न्यासः-5. अस्य' श्रेढीसूत्रेण सङ्कलितम् 15. अस्य वर्गः 225. एतत् पञ्चपर्यन्तं घनसङ्कलितम् ।। इति द्वाविशं सूत्रम् ।। २२ ।। [ राशिद्वयस्य संवर्गे उपायान्तरम् } 'संवर्ग:स्योपायान्तरमार्ययाऽऽह सम्पर्कस्य हि वर्गाद् विशोधयेदेव वर्गसम्पर्कम् । यत्तस्य भवत्यर्धे विद्यान् गुणकारसंवर्गम् ॥ २३ ॥ गुणगुण्यराश्योयोंगवर्गात् तयोरेव गुणगुण्यराश्योर्वर्गयोगं त्यजेत् । शिष्टस्य यदर्ध तत् तयोर्मुणगुण्यराश्योः संवर्ग विद्यात । गुण[न]क्रियायां द्वयोरपि राश्योरन्योन्यगुणकारत्वस्य विद्यमानत्वाद् गुणकारसंवर्ग इत्युक्तम् । उद्देशक:- पञ्चानामष्टकानां च संवर्ग बूहि पण्डित । Tit- 1. A. C. Tą for fš 2. A. C. titchi (wr.) ETTTTTT-1. B. C. D. E. om. T and all excepting E. add T: 2. D. om. HafēT 3. E. om. RT 4. A. B. C. गुणगुण्यकरणमार्ययाह 5. D. न्तरमाह