पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| A कालक्रियापादः । १५ शक्यः । कुतस्तर्हि परीक्षणैब्यक्तिरित्युक्तम् । तदप्यनेन परिहृतं सङ्कथा तु तेषां चिरजीविहृष्टेति । चिरजीविहृष्टा खलु खेचराणां भगणादीनां सङ्कथा ।। ततस्तस्या अपीषत् स्थौल्यम्। तच्च कालदैर्यवशाद् वर्धते । ततस्तदानीं तस्य यावत् स्थौल्यं, स्वपरीक्षितस्य न तावत् स्थौल्यस् । किञ्च तत्स्थौल्यस्य कार णान्तरमपि स्यात् । शत्रुकता हि सर्वदा परीक्षमाणः ग्रहनक्षत्रसक्तवशात् सम्यक् परिच्छिन्द्याद् ग्रहस्फुटं कलान्तम् । कदाचिद् यन्त्रेण तदन्तरं परी- क्षमाणेन ज्ञातस्य ततोऽपि स्थौल्यं सम्भवति । तत्र यन्त्रकमैपराधः स्खहस्त चक्षुरादिकरणापराधश्च स्यादिति । एवं कल्पितयोगेहस्फुटयोः चिरकालां न्तरितयोर्यन्मध्यमद्वयं कल्प्यत तस्य ततोऽपि स्थौल्यं तदन्तरालगतिवशात् कल्प्यमानानां गुणकारभागहाराणाम् । तत्राण्यवयवोपेक्षाजातस्य स्थौल्य- स्यान्येज्ञतुमशक्य स्वच कालदै यीनुरूपं प्रतिदिनं वर्धमानं भागादि- प्वप्यन्तरं विदधीत । तस्मात् स्वपरीक्षितस्य तदपेक्षयातीव सौक्ष्म्यं स्यात् । अत एव ‘गणितोन्नीतस्य चन्द्रादेरि’त्यादिना संवैरपि स्वयं परीक्ष्य निर्णायैव परेभ्यः स्वशिष्येभ्य उपदेशः कर्तुं शक्य इति परीक्षा संप्रदायाविच्छेदादेव प्रामाण्यमित्युक्तम् । येषां पुनः कालवशाद् अन्तरं न वर्धते तेषां परमापक्रम विक्षेपपरिध्यादीनामप? पि) स्थौल्यं सम्भवपेव, न पुनस्तद् वर्धत इति न व्यवहारायोग्यत्वं तेषाम् । तथांश्च प्रतिसौक्ष्म्यमापिपादयिषतां तेषामपि कर्तृकरणादिदोवादवय(वा ? वो)पेक्षादोषाच्च जायमानमीषदपि स्थौल्यं भूयः परीक्षणेन परिहृय सौक्ष्म्यमापादनीयम् । तदयुक्तं कर्तरिकाध्याये ‘याम्यतः प्रतिनिवृतकालतः सौम्यतश्च विदितं यदन्तरम् । भास्करस्य दलितं तदेव हि कान्तिमाहुरधेिकां पुरातनाः ।” इति । परमविक्षेपाः पुनभीगार्धमिताः सूर्यसिद्धान्ते चात्रापि पठिताः । तेषां पुनस्ततोऽपि सौक्ष्म्यमापादितं अजैष्णचश्रीपतिमुलकादिभिः । परीक्षकाचार्यपरम्परया तेषामेभ्यः सौक्ष्म्यमस्माभिरप्यवगम्यते ग्रहयोगा- दिषु । तत्र श्रीपतिराह मुब्जालकश्चाह ‘मन्दस्फुटात् स्वपातनाद् ग्रहाच्छीघ्राऽज्ञशुक्रयोः । भुजाः षट्कृतिस्थुष्टिनबाटयष्टिहताः क्रमात् ।। १. ‘त्रा', २. षाब’ क. पाठः. ३. ‘वैमिंता:' ख. पाठः४. ‘षामपि ततो } 6 ‘ के पाठ