पृष्ठम्:आर्यभटीयम्-भागः २ (व्याख्या-नीलकण्ठसोमसुत्वन्).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ आर्यभटीये सभाष्ये चन्द्राद् विक्षेपलिप्ताः स्युस्ताः कुजाद् व्यासताडिताः । शत्रच्छेदहृताः स्पष्टाः स्वर्गाख्या दक्षिणोत्तराः ” इति । तत्र चन्द्रमसः परमविक्षेपस्य द्वाविंशत्या लिप्तभिराधिक्यं स्यात् । शुक्रस्य वक्रसमये ततोऽप्यधिक ? कं) स्फुटविक्षेपस्यान्तरम् । एवं तेषा मपि प्रायिकत्वमेव । एवमयनचलनगणितस्य स्थौल्यसम्भवात् परीक्ष्यैव निर्णयः कर्तुं शक्यः । तन्मण्डलस्य पुनश्चतुर्युगार्जुन कालेन कृतद्वापरान्ता न्तरालेनाचार्यपरम्परया परीक्षितत्वात् परिपूणैव तेषां त्रिशतीति तद्वाक्यै रवगम्येते । कृतयुगावसाने तत्परिपूर्तिः सूर्यसिद्धान्तोक्त्या निर्णीयते । द्वापरान्ते तत्परिपूर्तिश्च गर्गव्यासादिवाक्यैर्निर्मीयते । द्वापरान्ते हि व्यासा वतारः प्रसिद्धः ‘‘द्वापरे द्वापरे विष्णुर्यासरूपी महामुने !! वेदमेकं सुबहुधा कुरुते जगतां हितम् ॥“ इति । वृद्धगणैः पुनर्गर्गश्चेति गर्गद्वयं प्रसिद्धम् । तत्र पुनर्गर्गः कल्यादौ प्रादुरैतः ‘कल्यादौ भगवान् गर्गः प्रादुर्भय महामुनिः । ऋषिभ्यो जातकं कृत्स्नं वक्ष्यत्येव कलिं श्रितः ॥“ इति पराशरोक्तेः । स्वप्रणीते गर्गसंहिताख्ये गणितशास्त्रेऽप्येतत् सिद्धे देवे कृष्णे दिवं याते’ इत्यादै। श्रीमद्भागवते दशमस्कन्धे नन्दगोपेनाप्यु- ‘‘ज्योतिषामयनं साक्षाद् यत्तज्ज्ञानमतीन्द्रियम् । प्रणीतं भवता येन पुमान् वेद परापरम् ॥“ तस्माद् द्वापरकळिसन्धौ गर्गेण शास्त्र(स्य) प्रणीतस्वात् तस्मिन् कालेऽपि श्र कृतिस्थमथुनमिति सिद्धम् । तस्माद् यथा कल्पमन्वन्तरादिषु दिव्याब्दादीनां परिपूर्णत्वम् एवमयनमण्डलचलनानामपि घट्छती परिपूणैव चतुर्युगे इति स्मृत्यैतिह्यभ्यमवगम्यते । तस्माद् भारताद् गुरुदिवसा दिव्याब्ददशके गते अस्मद्ग्रन्थकरणकालेऽपि प्रकृतिस्थमेवायनं, द्वापरे कलिसन्धौ च प्रकृति स्थत्वात् । दिव्याब्दविंशत्या तद्भगणस्य पूर्णत्वाद् दिव्याब्ददशकेल मण्ड १. ‘क्षेपान्तरस्या' क. पाठः