पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
32
आयुर्वेदसूत्रे

 समानानिलेन[१] तत्स्थान् कला ज्वलयन् पचति ॥ ६३ ॥

 समानवायुनाऽनले प्रज्वलिते सति सा कळा सर्वं भुक्तं पचति । धातुदेहशोषककार्यस्य च आमाशयस्य च कार्यकारणभावस्य च वक्तुं सुकरत्वादिति भावः । अत्र सूत्रवचनम्--

समानोऽग्निसमीपस्थकोष्ठे चरति सर्वतः ।
अनुगृह्णाति पचति विवेचयति मुञ्चति ॥[२]

रसे कोष्ठे चरति सति एवमाकारेण कलायाः अबलत्वं स विमोचयेदित्यर्थः ।

 ननु अबलाग्निना आमाशयस्थितमन्नं पक्तुं असामर्थ्ये सति अतस्समानानिलेन सन्बुक्षयन्तीति यदुक्तं तदसङ्गतं, अत्यशनाज्जाताजीर्णस्य तन्निवर्तकेन विना शुद्धसमानानिलेन आमाशयस्थितान्नं, अनलप्रज्वलनीभूतद्रव्यादनं विना ग्रहणीकलायाः अबलत्वमपहर्तुं शक्यते । अत आह-- दुष्टेति ।

 दुष्टग्रहणी रोगस्य कारिका ॥ ६४ ॥

 प्रत्युत ग्रहणीकला दुष्टा सती रोगकारिका भवतीत्यर्थः ।

आमेनान्नेन दुष्टेन तदेवाविश्य कुर्वते ।
विष्टम्भयन्तोऽलसकं च्यावयन्तो विषूचिकाम् ॥[३]

 इति सूत्रवचनम् । विरुद्धान्नादनेन ग्रहणीकला दुष्टा सती भुक्तान्नं सङ्ग्राह्यधातुपोषणं कर्तुमसमर्था । ग्रहणीकलाया भाव्यकार्यस्य अजीर्णजातामयस्य च हेतुमत्तया कार्यकारणभावत्वेन दुष्टग्रहण्या रोगकारकत्वं सिद्धमित्यर्थः ।


  1. तत्स्थं. पा.
  2. अष्टाङ्गसूत्रं. XII 8.
  3. सूत्र. VIII. 5.