पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
15
प्रथमप्रश्नः

तन्निवर्तका इति बहुजातरुङ्निवर्तका न भवन्तीत्यर्थः । दोषहेतुकास्ते च रुजो धातुविनाशकाः । तन्निवर्तकप्रकारकाः औषधादयः । अत्र वचनं--

नावनाञ्जनपानेषु योजयेद्विषशान्तये ।
विषभुक्ताय दद्याच्च शुद्धयोर्ध्वमधस्तथा ॥
सूक्ष्मं ताम्ररजःकाले सक्षौद्रं हृद्विशोधनम् ।
शुद्धे हृदि ततश्शाणं हेमचूर्णस्य दापयेत् ।
न सज्जते हेमपाङ्गे पद्मपत्रेऽम्बुवद्विषम् ॥[१]

इति वचनात् ।

अन्नपानं विषाद्रक्षेद्विशेषेण महीपतेः ।
योगक्षेमौ तदायत्तौ धर्माद्या यन्निबन्धनाः ॥[२]

 इति वचनान्तरेणापि सूत्रार्थो ज्ञाप्यत इति व्याधिहेतुकद्रव्यादनाज्जातरोगाणां तन्निवर्तकौषधयोगवशाद्व्याधिनिवृत्तिरेव फलमिति अनिष्टपरिहारार्थमपि फलप्रवृत्तेर्दृष्टत्वात् संस्थानाभिवर्धकसर्वभोक्तृत्वं कथं स्यादित्यत आह-- प्रकाशमानेति ।

 प्रकाशमानप्रथमप्रयाणाधिगतनिस्सृतामृतप्रतिप्रयाणाहृतयोगविभागधातुपोषकसुरसादनादरोगवानजरः ॥ ३३ ॥

 अग्निजस्वरूपकुण्डल्युद्भवश्वासानिलजातेनोष्मणा प्रकाशमानस्सन् प्रथमप्रयाणादुत्थितसहस्रकमलादागतामृतमाहृत्य यथायोगं सप्तधातून्सन्तर्प्य यो योगं करोति स चिरायुर्भवति । शुद्धरसादनाच्च फलं भवतीति अजरत्वं सुप्रसिद्धमित्यर्थः । अत्र कविवाक्यं--


  1. अष्टाङ्गसूत्रम् VII--26-28
  2. अष्टाङ्गसूत्रम् VII--2