पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
14
आयुर्वेदसूत्रे

शक्या भवन्तीत्यर्थः । तत्र सामग्रीग्रहरूपमन्त्रतन्त्रैः भयनिग्रहो भवति । आमहेतुकसामग्रीजन्यरोगाभावादित्यर्थः । ऊर्ध्वाङ्गजाता अनेकरोगाः पूर्वोक्तप्रकारनिवर्तका निवर्त्याः ते ऊध्वाङ्गजातरोगा बहवो दृष्टाः । तन्निदानमेतद्भिन्नविषयकम्, एतन्निदानस्यापि तद्भिन्नविषयकत्वात् । कर्णनेत्रशिरोनासिकाजिह्वास्थितपवनपित्तप्रकोपकारकाः तद्धेतुकार्याहेतुकार्यहेतुभूतामयाः कारणजन्याः इत्यूर्ध्वाङ्गरोगान्विशिनष्टि-- आमेति ।

 आमजामयकार्यहेतुकान्यहेतुकामयनिवर्तका अपूर्वाङ्गहेतुकाः ॥ ३१ ॥

 पूर्वकायहेतुकजातरोगकार्यहेतुकसामग्रीजन्यहेतुप्रतिपादनात् उत्तरकायाधिष्ठितरोगप्रतिपादकामजातरोगकार्यहेतुस्थिताः निवर्तकैः निवर्तयितुं योग्या भवन्तीत्यर्थः ।

 रेचकलङ्घनाभ्यां निवर्तयितुमयोग्या इत्याशङ्क्य तदामयानां तन्निवर्तकाः प्रकाश्यन्ते-- दोषेति ।

 दोषसञ्चाराभावजास्थिकर्णनासादिसन्धिजरुजश्शस्त्रेणैके निवर्तकाः ॥ ३२ ॥

 दोषाः वातपित्तकफाः प्रकुपिताः । विकारहेतुभूतसञ्चारजन्यकर्णनासादिसन्धिजातदुष्टरक्तशल्यरूपरुजां तन्निवर्तकानि शस्त्रक्षाराग्निकर्माणि शिरोऽस्थिरक्तं विमोचयन्तीत्यर्थः । तत्र वचनं--

शस्त्रादिसाधकः कृच्छ्रस्सङ्करे च ततो गदः ।
एकशब्देन एकेषां मुख्यत्वं प्रतिपादितम् ॥