पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
13
प्रथमप्रश्नः

 यावत्कृतिविधेः कायः ॥ २९ ॥

 यावन्निदानज्ञानविषयकज्ञानजन्यसाधकीभूतनिवर्तकानां कृतिः कार्यो निवर्त्यः । तत्रैतयोः यावद्विधिः यावच्छास्त्रोक्तकर्मसहिष्णुत्वं यस्य निवर्तकं भवति स एव काय इति उपदेशः । अत्र सूत्रवचनम्--

शोधनं शमनं चेति समासादौषधं द्विधा ।
शरीरजानां दोषाणां क्रमेण परमौषधम् ॥[१]

 शरीरत्वावच्छेदेन कायबालशरीरस्याप्येकत्वेन क्रमेण परमौषधमिति कायबालचिकित्साभेदेन विवक्षितत्वात्क्रमशब्दार्थो विवक्षितः । ननु कायबालामयौ आमहेतुजन्यामरोगनिवर्तकसामग्र्यां सत्यां तज्जन्यरोगनिवृत्तेर्दृष्टत्वात् तज्जातामयौ कायबालेति प्रतिपादितौ । तदन्यजातरोगा ग्रहा ग्रहजातरोगाः । तेषां का गातिरित्याशयवानाह-- आमेति ।

 आमजामयकार्यहेतुकचित्तक्षोभभयनिग्रहविग्रहो ग्रहः ॥ ३० ॥

 अत्र केचित्-- आमजन्या व्याधयः । तेषां किंचित्सामग्रीप्रयुक्तकर्म तत्र भेषजम् । ग्रहाभिभूतामयानां आमनिवृत्तिकर्मकरणस्यायोग्यत्वात्, अत्र तन्निवर्तकसामग्र्या अननुभूतत्वात्, शास्त्रतः अदृष्टत्वाच्च । तस्मादेतत्सूत्रमयुक्तमिति वदन्तं प्रति परिहर्तुकामस्सूत्रं व्याचष्टे-- आमेति ।

 तद्रोगनिवर्तकतद्ग्रहनिग्रहरूपं तत्र भेषजम् । मन्त्रतन्त्रबलिप्रदानादयो निवर्तकाः । ग्रहेष्वनुगुणेष्वेकदोषमार्गा ग्रहजन्यादिरुजोऽपि बलिदानमन्त्रतन्त्राद्यैः निवर्तनैः निवर्तयितुं सुखेन

  1. अष्टाङ्गसूत्रम् 1-- 24-25.