पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
260
आयुर्वेदसूत्रे
तिक्तरसवदस्थिशोषकामयनिवर्तकम्[१]
५५
 
लवणरसोऽन्तस्स्थितामयापहः ।
५६
 
लवणरसगुणकमेदोधातु[२]दूषकनिवर्तकः ।
५७
 
तिक्तबीजं कटुशाखाशरीरं कफरोगजालामयरसाज्जाताजीर्णज्वरस्य[३]सप्ताहान्निवर्तकम् ।
५८
 
तावदजीर्णरसो रसान्तरं भवति ।
५९
 
तत्तद्रसस्तत्तद्रोगनिवर्तकः ।
६०
 
तद्विषमो भवति ।
६१
 
[४]पित्तहेतुकाम्लरसाजीर्णं षड्रात्रात्तद्रसान्तरं भवति ।
६२
 
तद्रसस्तद्दोषजनकः ।
६३
 
कफहेतुकलवणरसाजीर्णं नवरात्रं तावद्रसान्तरं भवति ।
६४
 
तद्रसस्तद्दोषजनकः ।
६५
 
विरसान्नजाताजीर्णेऽपि ज्वरः ।
६६
 
यद्विरसानलापाच्यः स्वादुरसः, कषायो यद्भवेदनिलहेतुकः, आम्लविरस[५]स्तिक्तरसः पित्तहेतुकः तद्विरसास्तद्भेषजाः ।
६७
 
अनल[६]एव निवर्तकः ।
६८
 
जीर्णाजीर्णविवेको जिह्वायां विद्यते नृणाम् ।
६९
 
स्वाञ्जल्यां दृश्यते रसः ।
७०
 
यत्रस्था ये रसास्तत्रैव भान्ति ।
७१
 
तस्मात्पाचकपित्तं पचत्याहारम् ।
७२
 
धातून्पचत्यनिलः[७]
७३
 


  1. विवर्धकम्--A.
  2. पोषक--B.
  3. ज्वर:--A&B.
  4. दीप्ति--A.
  5. विरसः कटु--A.
  6. अनिल--A.
  7. नलः--B.