पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
259
षष्ठः प्रश्नः
तत्तद्रोगास्सुसाध्याः ।
३४
 
तिक्तरसाद्विरसष्षोडशाहस्सुसाध्यः ।
३५
 
तिक्तरसाद्विरसैकरसविरस एकादशाहस्सुसाध्यः ।
३६
 
अधिकरसवद्द्रव्य[१]मामयहेतुकम् ।
३७
 
[२]यद्दोषाहारसातिमात्रका रसास्तद्दोषजनकाः ।
३८
 
यावदजीर्णं तावद्रोगः ।
३९
 
यावज्जीर्णं समयो निवर्तकः[३]
४०
 
मधुररसादि[४]सन्निपातज्वरापहम् ।
४१
 
गोघृतं सर्वरोगहृत् ।
४२
 
आजमाविकं बालरोगविनाशनम् ।
४३
 
क्ष्माल्पानलाम्बुजस्वादुरसं पित्तहरम् ।
४४
 
पाकाम्लरसः पवनानुगमन्दाक्षिरोगहारकः ।
४५
 
सिद्धपाकाद्धि स्वादुरसः पवनहारकः ।
४६
 
[५]अभिपाकरसवद्द्रव्यमनिलामयनिवर्तकम् ।
४७
 
स्वादुबीजलवणाम्लकद्रव्यं सकलपवनापहरम् ।
४८
 
आम्लबीजलवणकाण्डस्वादुपत्रादिकं पित्तावृतानिलनिवारकम् ।
४९
 
लवणबीजस्वाद्वम्लगात्रद्रव्यं कफावृतानिलगदापहम् ।
५०
 
कषायरसनिभं आम्लगात्रभूरुहं सकलामयापहारकम् ।
५१
 
कषायरसश्शुक्लशरीरनाशहेतुकः ।
५२
 
स्वादुरसाश्चरमधातुनाशकरसविनाशकाः ।
५३
 
ऊषणरसवत्पोषकमज्जाप्रबोधकपवनहराम्लरसः तदुद्भूतरोगघातकः ।
५४
 


  1. मामहेतु.
  2. यद्दोषहार.
  3. Bकोशे नास्त्येतत्.
  4. रोगादिसन्निपात--A.
  5. अधिकंपात–-A.