पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
219
पञ्चमप्रश्नः

ऽपि विकारं भजति । विषमरसपचनमपि करोति । तत्संस्कारजन्यपवनगतिः विस्वरवर्णकशब्दज्ञापकताल्वोष्ठपुटव्यापारं करोति । तत्पदाधारपद्मं मुकुलीकरोति । तदनन्तरमपि पित्तप्रकोपकारकरसवद्द्रव्यान्तरापादनेन तत्तत्संस्कारजातगुणान्वयमेव बिभर्ति । यदा तद्यावद्विकारं करोति तदा पित्तविशिष्टपवनगत्यैव ज्ञाप्यते । रसविषमदोषेण संस्कारजातपित्तविकारयुक्तस्सन् तत्तद्धातुमार्गं संप्राप्य सञ्चरन् तत्तद्धातून् सन्दूष्य तत्तद्विकारज्ञापनं कुरुते । तदा पित्तप्रकोपदोषोऽयमिति ज्ञातुं शक्यत एवेत्यर्थः । एवं कफप्रकोपकारकद्रव्यान्तरादनं संभवति । तदा कफप्रकोपज्ञापकगुणान्विधत्ते । कफपित्तामयगतो देवदत्तः इति तत्तद्रव्यगुणविशिष्टपवनस्य तत्तद्दोषगुणज्ञापकगतिः परेषामपि ज्ञाप्यत इति । अयं कफरोगयुक्तः पवनविकारः द्वन्द्वयुक्तपवनविकारकफज्ञापकगतिं करोति । तदा विषमरसादनजातसंस्कारगुणविशेषपवनदोष एव अनेकधातुमार्गगतिकारकशक्त्या भवति । तत्तद्धातुपोषणं च करोतीत्यर्थः ।

 ननु पित्तप्रकोपरसवद्द्रव्यादनेन पित्तप्रकोपकारकगुणान् गच्छति । स एव पित्तपवनप्रकोपगत्या ज्ञातव्यः । एवं कफप्रकोपकारकरसविरसद्रव्यादनेन कफप्रकोपगुणान्विधत्ते । तदा कफप्रकोपद्वन्द्वगतिरिति व्यवह्रियते । एवमयं त्रिदोषरोग इति एवमाकारज्ञानेन व्यवहर्तुं शक्यते । तत्तज्जनकाङ्गानामदृष्टत्वात् 'अयं त्रिदोषरोगः' इति ज्ञानं चात्र कथं स्यादित्याह--चरमेति ।

 चरमरसपचनरोगस्त्रिदोषगः[१] ॥ २१ ॥


  1. एतत्सूत्रात्पूर्वं--‘विषमरसानेकपथधातुमार्गगाः द्विदोषगाः । इति A & B कोशयोरधिकः पाठः