पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
218
आयुर्वेदसूत्रे

 चिकित्साकाले पण्डितानां द्रव्यज्ञानमावश्यकमिति कालयोगविषयद्रव्यज्ञानं देशयोगविषयद्रव्यज्ञानं देहयोगविषयकद्रव्यज्ञानम्— एतत्सर्वज्ञानं विना पञ्चभूतात्मकरसवद्द्रव्यज्ञानं किमासीदित्याह-- देहेति ।

 देहदेशकालद्रव्यकर्मणां यथायोगकरणं यावद्रोगघातकम्[१] ॥ १९ ॥

 देशभेदेन द्रव्यभेदं विज्ञाय चिकित्सा कार्या । कालभेदेन द्रव्यभेदं विज्ञाय चिकित्साकरणं विधिः । एतेषां कर्मकरणं यथा--योगकरणं तत्तद्देशीयानां तत्तद्द्रव्यभेदगुणं विधत्ते । तत्तत्कालविशिष्टदेहानां तत्तद्द्रव्यभेदगुणं विधत्ते । एवं देहदेशकालभेदेन रसवद्द्रव्याणां योगः बहुविधगुणान् प्रयच्छतीत्यर्थः । तत्तद्द्रव्यकर्मणां यथायोगो यावद्रोगघातकः ।

 ननु तत्तद्द्रव्यभेदगुणं देशकालभेदज्ञानेन तत्तन्निवर्तकरसवद्द्रव्यकर्मणां कृतिः अनेकधातुसञ्चलितजनितदोषस्यापि एकधातुकत्वात् अयं द्विदोषः त्रिदोषोऽयमिति प्रतीतिः तज्जरसामयभावादेव तद्ज्ञानं कथं स्यादित्यस्वरसादाह--विरसेति ।

 विरसविषमपचनजातद्विदोषैकविधधातुमार्गगा द्विदोषगाः[२] ॥ २० ॥

 विरसविषमपचनं नाम विरुद्धरसवद्द्रव्यसंयोगजयावद्द्रव्यं पक्वाशयं प्रविश्य तद्द्रव्यानुगुणविकारं कुरुते । तत्पाचकानलो

  1. नैतत् A. B.कोशयोर्दृश्यते.
  2. एतत्सूत्रात्प्राक्--यावद्धातुविरुद्ध रसादिगततद्रसाभावदर्शनकालो दोषपचनकालः । विरुद्धरसजातयावद्धात्वधिरोहणादेकधातुकः । इति द्वे सूत्रे A & B कोशयोरधिक दृश्येते.