पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
176
आयुर्वेदसूत्रे

रससारस्तु उदरपाण्डुशोफविसर्पकुष्ठवातरक्तवातविकाराणामेक एव हेतुर्भवति । स एक एव कार्यजनकः । सिरामार्गगतपवनगतिनिरोधनरूपकार्यकारकद्रव्यत्वात् । तत्पवनगतिनिरोधनं एतदामयहेतुकम् । तत्तु क्वचिदङ्गभेदेषु रसासृग्दूषणद्वारा त्वक्पालित्यं करोति । स पाण्डुरोग इति व्यवहारमात्रभेद उपलभ्यते । तदेव यदा तत्सिरासंसर्गभेदवशात् तत्पवनगतिनिरोधनं मांसधातुशोषकं भवति इतरमांसधातुः पृथुर्भवति । तच्छोभरोग इति व्यवह्रियते । तद्गतिनिरोधनं यदा मेदोधातुदूषकं भवति स मेदस्सारः बहिःस्फोटरूपेण स्फुरणात् पवनविसर्परोग इति ज्ञानं जायते । स आमसारः मेदोधातून् सन्दूष्य तद्बहिर्भूतमांसधातुमावृत्य त्वग्धातुं प्रविश्य बहिस्सर्पति चेत् तत्कुष्ठं भवति । यावत्पवनाधारकसिरा आमपित्तरससारग्रस्तास्सन्तः यावत्पद्मविकारकार्यकारितत्तत्सिरावर्णविकारं कुर्वन्तीति कुष्ठाः, कुत्सिताङ्गविकरं कुर्वन्तीति कुष्ठाः । पादपद्माधारकसिराहृद्गतामपित्तरससारसंस्कारयुक्तसिरा तद्विषसारं स्रवति । तत्पद्ममापूर्य पादाङ्गुलिभ्यः स्रवति । तच्छाखानि शीर्णानि भवन्तीत्यर्थः ।

 ननु रसविरसजन्याजीर्णजन्यामयहेतुकत्वे सति मेदोस्थिमज्जाधातुगतसिराधारकपद्माश्रितामपित्तरसविषसारजन्यामयहेतुकत्वादिति व्यतिरेक्यनुमानप्रमाणेन प्रतिपादितामयानां अजीर्णजन्यामनिवर्तकसामग्र्यतिरिक्तसामग्रीनिवर्तकद्रव्यत्वात् इति । तस्माल्लङ्घनतदुपयोगद्रव्याणि निवर्तकानीति आयुर्वेदसूत्रचयं व्याचष्टे । पवनप्रकोपहेतुकविरसाज्जातं रसासृङ्मांसचयप्रदेशगतं भवति । स्वाद्वम्ललवणरसाधिक्यादनेन अजीर्णे जाते सति पवनप्रकोपो भवति । अचां वर्णानां आधारभूतपद्माधारकसिरासंस