पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
175
चतुर्थप्रश्नः

धकहेतुभूतत्वात्, यन्नैवं तन्नैवं यथा घटः । तत्तद्व्याधिनिदानज्ञानं तत्तत्सिराधीनवर्णात्मकपदज्ञानहेतुकं, अविकारहेतुकसामग्रीजन्यत्वात्, यन्नैवं तन्नैवं यथा घटः । बाह्यपवनाकर्षणजातताल्वोष्ठपुटव्यापारसंस्कारोद्बोधकवर्णाधारपद्मं विरसद्रव्यादनजन्यपवनप्रकोपहेतुकस्वरबोधकारकं, पवनप्रकोपलक्षणज्ञानबोधकद्रव्यत्वात् आमपित्तसिरासारं यादृशसिरासंस्पर्शनात् तत्तदङ्गजन्यरोगा इति । सकलपवनरोगजनकसामग्री अमपित्तसारः, तत्तदङ्गावलग्नसिरासंस्पर्शनसामग्रीस्वरूपत्वात् । नानारूपघटानां एकमृत्पिण्डमेव कारणम् । तथा आकाशादिवदङ्गजन्योपाधिभेदात् कर्णपवनरोगः नेत्रपवनरोगः शिरःपवनरोगः इति व्यपदिश्यते ।

 ननु आमपित्तसारः उदरपाण्डुशोफविसर्पकुष्ठपवनरोगाणां एकमेव कारणमिति वक्तुं न शक्यते, तत्तन्नामभेदेन कार्यभेदस्य दृष्टत्वात् । तत्र कारणभेदोऽस्तीति अवश्यं ज्ञातव्यम् । घटः कलश इव भेदो भवतीति न वक्तव्यम् । तद्धि सर्वं पृथुबुध्नोदराकारत्वेन अयं घट इति घटत्ववति घटत्व प्रकारकत्वं ज्ञातुं शक्यत्वात् । न तद्वदेवात्रापि भविष्यति, अयं पाण्डुरोगः अयं शोफरोग इति रोगत्ववति रोगत्वविशिष्टप्रकारकत्वेन ज्ञातुं शक्यत्वादिति वाच्यम्, तेषां मृद्विकारव्यक्तीनां जलानयनकार्योपकारकत्वं पृथुबुध्नोदराकारव्यक्तीनां व्यक्तिभेदज्ञाने सत्यपि पृथुबुध्नोदराकारस्य एकप्रकारकत्वस्य दृष्टत्वात् । दृष्टान्तेनापि अभेदज्ञानमात्रमिति नानुभूयते । तद्वदत्रापि फलभेदरूपभेदचिकित्साभेदज्ञानानुभवस्य दृष्टत्वात्, इति चेत् न्न । तद्वदत्रापि कार्यभेदाभावोऽस्ति । तथाहि--आमपित्तसारः उक्तरोगेषु एक एव हेतुर्भवति । तत्तच्चिकित्साभेदेन तत्तन्नामभेदानुभवः कथमपलापयितुं शक्यते ? अत्र ब्रूमः-- आमपित्त