पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२०४

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
172
आयुर्वेदसूत्रे

यते । पित्तप्रकोपसामग्र्या पित्तरोगो जायते । पण्डुरागज्ञापकत्वक्पालित्यं कथं स्यादित्यस्वरसादाह--हृदिति ।

 हृदि स्थितामपित्तविषसारं पादपद्मशोषकं अवर्णबोधकचतुस्रिंशत्सिरासंसर्गवशादमृतप्रवाहरोधनात्पवनजन्यामयाः प्रवर्धन्ते ॥ ३३ ॥

 रसविरसद्रव्यादनजातामाशयव्यापकपवनविगत्या आमपित्तविषसारः अवर्णोद्बोधकतत्पादपद्मपोषकसिरारन्ध्रमार्गगतामृतप्रवाहं निरुध्य वातविकारजन्यपाण्डुरोगः हृदिस्थितामपित्तसारः परंपराहेतुर्भवतीत्यर्थः । स एव वातोदरस्यापि हेतुर्भवति । वातपित्तपण्डुरोगस्यापि परंपरया हेतुर्भवति । अनिलजन्यवातामयस्यापि हेतुर्भवति । अत एव उदरामयनिरूपणानन्तरं पण्डुशोफविसर्पामयानामवसर इति प्रतिपादितम् । एतत्प्रतिपादितामयानां जनकीभूतामपित्तरसविषद्रव्यस्यैकत्वात् । एककारणजन्यस्य नानाकार्यप्रतीतिः उपाधिभेदाद्भवति । सुवर्णस्यैकत्वेऽपि तज्जन्यकार्यं तत्तद्रूपभेदेन बहुविधं प्रतीयते, तत्र कारणबाहुळ्यस्य दृष्टत्वात् ।

 ननु अयं वातपाण्डुरोगः, अयं पित्तपाण्डुरोगः, अयं कफपाण्डुरोगः इति तादृशप्रतीतेर्विद्यमानत्वात् तत्कार्यहेतुभूतार्थाः दोषा एव भवेयुः । विरसजन्यामपित्तविषरूपद्रव्यस्य विरसजनकत्वात् तत्पाण्डुशोफविसर्पामयानां तत्तज्जनकीभूता दोषा एव हेतवो भवन्तीत्यस्वरसादाह--अमृतेति ।

 अमृतप्रवाहालवालोपजीव्यावर्णोद्बोधकसरन्ध्नकाभ्यन्तरधरषट्सिरामपित्तविषसारग्रसनं पवनप्रकोपहेतुकम् ॥ ३४ ॥