पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/२०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
171
चतुर्थप्रश्नः

एव स्यात् । पित्तकफप्रकोपो यावच्छरीरनाशकः सिरामार्गगतधातुपोषकपवनमार्गनिरोधनद्रव्यत्वात् । व्याध्यवच्छेदकं शरीरविनाशकत्वं, पित्तकफव्यतिरेकेण शरीरनाशकत्वाभावात् । वायोस्तु तत्संसर्गद्वारा रोगहेतुकत्वप्रतिपादनम् । तस्मान्मुख्यत्वेन प्राधान्यं पित्तस्यापि संभवतीत्यर्थः । पवनस्य व्याधेः प्राधान्यप्रतिपादनं सर्वशरीरव्याप्यपवनमन्तरेण रोगकार्यहेतुकत्वं वक्तुं न शक्यत एवेति तात्पर्यम् ।

 ननु पाण्डुशोफविसर्परोगाः तत्तद्भिन्निज्ञानविषयकसामग्रीजन्याः । नत्वेकपदार्थज्ञानग्राहकसामग्री बहुपदार्थग्राहिका भवति । बहुपदार्थविषयकज्ञानं नैकपदार्थविषयकज्ञानग्राहकसामग्रीजन्यं, एकपदार्थविषयकज्ञानग्राहकसामग्रीजन्यत्वात् । तथाहि घटेन्द्रियविषयकसामग्र्यां सत्यां घटविषयकज्ञानं जायते पटपदार्थविषयकज्ञानं नोदेति । तद्वदेवात्रापि । एकरोगजनकसामग्री कथं रोगक्रयप्रतिपादककार्यजनकसामग्री, बहुकार्यज्ञानग्राहिकाया अदृष्टत्वात् । अन्यथा एकपदार्थग्राहकसामग्र्यां सत्यां सर्वपदार्थविषयकज्ञानोप्तत्तिरेव स्यादित्यस्वरसादाह--वातेति ।

 वातपित्तरसविरसद्रव्यसंसर्ग[१]जातवातगतिरोधनाद्रसासृग्धातुविदूषणात्त्वक्पालित्यं पाण्डुरोगहेतुकम् ॥ ३२ ॥

 अस्यार्थः--वातपित्तप्रकोपरोगाः रसविरसद्रव्यसंस्कारजाताः, तेन पवनगतिरोधनद्वारा रसासृग्धातुं विदूष्य त्वक्पालित्यं यत्र दृश्यते तत्र पाण्डुरोगोऽस्तीति निदानं ज्ञातव्यम् । स एव पाण्डुरोग इत्यर्थः । ननु वातपित्तप्रकोपसामग्र्या वातप्रकोपो जा

  1. जातसिरागतपवनातिरोधनात्--A.& B.