पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१३८

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
106
आयुर्वेदसूत्रे

 ननु परमात्मन ईश्वरस्य निर्लेपनत्वात् निर्गुणत्वात् नित्यानन्दानुभववत्त्वात् तस्य सुखदुःखादिवैचित्र्यं कथं संभवति, शरीराधिष्ठानत्वस्य जीवात्मपरमात्मनोः समानत्वादित्यत आह-- सुखेति ।

 [१]सुखदुःखमोहात्मिकाद्यास्त्रयः प्रादुर्भवन्ति ॥ १४

 अहं सुखी अहं दुःखी कर्माधीनकर्मौपाधिकरूपः प्रकृत्यात्मकत्वात् । यदा जीवात्मनि आवृत्ते सति आत्मनः मायाशबलितत्वात् तावन्तो धर्मा उपलभ्यन्त इत्यर्थः । अत एव कर्माधिकारित्वं जीवात्मन उपलभ्यते । आत्मन एव मोक्षाधिकारिस्वादुरसन्नादनं तस्यैव लभ्यते । तज्जन्यसात्विकगुणो मोक्षोपकारको भवति । यदा आम्लरसादनं उपलभ्यते तदा राजसगुणाविर्भावो भवति । तेन केवलं सुखं भुङ्क्ते । कटुरसद्रव्यादनं यदा भवति तदा दुःखानुषक्तसुखमनुभूयत इत्यत आह-- तदिति ।

 तद्रजस्तद्धेतुगुणभूतजातम् ॥ १५ ॥

 तद्रज इति तच्छब्देन सत्वरजस्तमोगुणा विवक्षिताः । तेषां मध्ये प्रथमगुणरजोगुणकार्यं हि आम्लरसवद्द्रव्यम् । रजोगुणभूतस्य आम्लरसवद्द्रव्यं कारणं भवतीत्यर्थः । तत्तु सत्वगुणकार्यस्य स्वादुरसलवणरसजन्यत्वं तमंस्सत्वगुणयोः हेतुभूतादित्यर्थः । सूत्रे हेतव इति बहुवचनयोगस्य विद्यमानत्वात् तमस्सत्वयोरपि ग्रहणम् ।

 ननु उक्तरीत्या स्वाद्वम्ललवणरसानां योजकं सत्वरजस्तमोगुणजनकमात्रं प्रतिपादितम् । वातपित्तकफजन्यरोगाणां निवर्तकरसद्रव्यस्य अन्यथासिद्धत्वात् तन्निवर्तकद्रव्याद्धीनेन जन्यरोगाः कथं निवर्तन्त इत्यत आह--यथेति ।


  1. सुखदुःखमोहात्मिका निवृत्तयः प्रादुर्भवन्ति. C.