पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/१३७

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
105
तृतीयप्रश्नः

 आम्लरसादनात्सुखमेकमनुभूयते ॥ ११ ॥

 अम्लरसजन्यसुखं दृष्टानुभवदेशदेहकालान्तरभाव्यमोक्षविषयकसुखं प्रत्यक्षानुभवमित्यर्थः । तस्मादिदमेव मुख्यमिति एकशब्देन ज्ञाप्यते ।

 सुखदुःखाभावप्रयोजकत्वं तद्दुःखानुभवं विना ज्ञातुमशक्यमित्यत आह-- उष्णेति ।

 [१]उष्णरसो दुःखानुषङ्गात्सुखं जनयति ॥ १२ ॥

 सुखानुभवो दुःखानुभवाभावस्य सुखत्वादित्यर्थः । ननु दुःखकार्यकारककरणजातदुःखं अनुभवैकनाश्यम् । सुखज्ञानं तु दुःखानुभवपूर्वकम् । सुखानुभवस्य दुःखाभावकार्यप्रतियोगिकाभावानुभवज्ञानपूर्वकत्वात् । दुःखानुषङ्गवत्सुखमपि दुःखहेतुकमपि भवति । सुखदुःखहेतुकार्यहेतुकसामग्रीपरिपालनमेव पुरुषार्थ एव फलं भवेदित्याशयं मनसि निधायाह-- तदेति ।

 [२]}तदा द्रष्टुस्स्वरूपावस्थानम् ॥ १३ ॥

 द्रष्टुरीश्वरस्य स्वरूपावस्थानं जगत्स्वरूपं यस्यास्ति, स ईश्वरस्तु जगत्स्वरूपो भूत्वा तिष्ठति । तस्य सुखानुभवस्य दुःखाभावकार्यप्रतियोगिकाभावानुभवस्यैव पुरुषार्थत्वात् । द्रष्टुः स्वरूपावस्थानं सुखदुःखानुरूपं भवतीत्यर्थः । तस्य जगत्स्वरूपशरीरं भोगायतनम् सुखदुःखानुभवो भोग इत्यर्थः ।

 AYURVEDA
14
 


  1. ऊषण
  2. तदा द्रष्टुस्स्वरूपावस्थानावृत्त्यसारूप्यमितरत्र.--A
    तदा द्रष्टुस्स्वरूपावस्थानं । वृत्तिसारूप्यमितरत्र-}

    योग I.3