पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/११५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
83
द्वितीयप्रश्नः

मग्र्यां सत्यां अजो विधिचोदितस्सन् रजस्वलाशरीरं विशति । अजे आविर्भूते सति तावत्कालोपस्थितसामग्री सफला भवति । तत्सम्पर्कवशात् जीवस्य औपाधिकानित्यत्वं औपाधिकरूपत्वं अज्ञानित्वं आभासज्ञानवत्त्वं जीवात्मनि भासते । तथैव व्यवह्रियते-- वृद्धोऽयं श्यामोऽयं ब्राह्मणोऽयमिति । इदानीं अहं सुखी अहं दुःखीति एतादृशप्रत्ययानुपपत्त्या रजस्वलासंसर्गदोषवशात् जीवात्मनः कथं कर्म फलादेशं प्रयच्छति, औपाधिकसुखदुःखानुभवं प्राप्नोति न तु स्वतस्सिद्धमिति, अत्मत्वात् नित्यत्वाच्च औपाधिकसुखदुःखादिकं लभते न स्वतस्सिद्धमित्यर्थः । तस्य रजस्वलासम्पर्कदोष इति व्यपदेशः । तस्मात्सा चाण्डालीव न तां स्पृशेत् नाभिभाषेत । तत्र श्रुतिः--

 "तस्मान्मलवद्वाससा न संवदेत न सहासीत नास्या अन्नमद्यात् ब्रह्महत्यायै ह्येषा वर्णं प्रतिमुच्यास्तेऽथो खल्वाहुः अभ्यञ्जनं वाव स्त्रिया अन्नमभ्यञ्जनमेव न प्रतिगृह्यं काममन्यत्"

 इत्यारभ्य

 "तस्यै खर्वस्तिस्रो रात्रीर्व्रतं चरेत् अञ्जलिना वा पिबेत् अखर्वेण वा पात्रेण प्रजायै गोपीथाय "

 एतत्प्रतिपादितार्थः रजस्वलायास्संसर्गदोषमहिम्ना अभूत् । अत्र शारीरवचनं--

क्षैरेयं यावकं स्तोकं कोष्ठशोधनकर्षणम् ।
पर्णे शरावे हस्ते वा भुञ्जीत ब्रह्मचारिणी ॥
चतुर्थेऽह्नि ततस्स्नात्वा शुक्लमाल्याम्बरा शुचिः ।
इच्छन्ती भर्तृसदृशं पुत्रं पश्येत्पुरः पतिम्[१]

इति शास्त्रानुसारेण "अजो नानारूपः पुरुरूप ईयते" इति सूत्रं सार्थकमित्यर्थः, बहुश्रुतिप्रतिपादकत्वात् ।



  1. अष्टाङ्ग. शारीर. I. 25-26.