पृष्ठम्:आयुर्वेदसूत्रम् (योगानन्दनाथभाष्यसमेतम्).pdf/११६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
84
आयुर्वेदसूत्रे

 चिरात्प्रजोत्पादकसकलसामग्रीसामर्थ्ये सति स जीवः ऋतुमतीं स्त्रियं प्रविश्य सुखदुःखाधिकं पापवशादनुभवति । तत्परिहारार्थं स्नानादि, तेन तत्परिहारो भविष्यतीत्याह-- चतुर्थ इति ।

 चतुर्थेऽह्नि स्नायात् ॥ ६१ ॥

 चतुर्थे दिवसे तत्पापपरिहारार्थं स्नानं कुर्यादित्यर्थः । तदनन्तरं इष्टदेवताभजनं गुरुदेवताभजनं देवब्राह्मणपूजनं प्रजानुग्रहार्थं देवताप्रार्थनं च कुर्यादित्यर्थः । अहं पुत्रकामिनी तत्संपदवाप्त्यर्थं पतिं व्रजामीति परिशुद्धा सती पतिसंसर्गं कुर्यादित्याह-- शुद्धेति ।

 शुद्धा पतिं व्रजेत् ॥ ६२ ॥

 सत्पुत्रावाप्तिर्भूयादित्यर्थः ॥

 ननु यथा स्त्री रजस्वला ऋतुमती जाता सती तत आरभ्य ब्रह्मचर्यादिव्रताचरणेन गर्भोत्पत्तिर्मे भूयादिति सङ्कल्प्य चतुर्थे स्नानं कृत्वा पतिव्रजनं विधिरित्युपलभ्यते । तद्दिनव्यतिरिक्तकाले मिथुने जाते सति गर्भोत्पत्तेरदृष्टत्वात् । तत्र पूर्वदिनकर्तव्यताकार्यमङ्गत्वेनाप्रतिपादितमिति न कोप्यनवसरः ॥

 ननु चतुर्थेऽह्नि स्नायादिति विधिः । तत्पूर्वदिनत्रयं व्रताचरणस्य विधेयत्वात् अदृष्टादिसकलसामग्र्यां सत्यां अविलम्बेन कार्योत्पत्तेर्दृष्टत्वात् चतुर्थदिनपर्यन्तं निरीक्षणस्य च प्रयोजकत्वात् तावत्कालाभावस्य उत्पत्तिरूपकार्याभावस्य हेतुमद्भावस्य दृष्टत्वात् चतुर्थेऽह्नि स्नानं कृत्वा पत्या साकं संसर्गकार्यस्य विधेयस्य बलत्वात् इत्यस्वरसादाह-- प्रजेति ॥