पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

SLAZE आपस्तम्बीये श्रौतसूत्रे .१०.१० उत्तिष्ठत पितरः प्रेत भूरा यमस्य पन्थामनुवेता पुराणम्। धत्तादस्मासु द्रविणं यञ्च भद्रं प णो ब्रूताद्धा- गधां देवतास्विति पितॄनुत्यापयति । ६। मादर्थेन मन्त्रोच्चारणमेवोत्थापनम् || परेत पितरः सोम्या इति प्रवाहण्या पितॄन्प्रवाह- यति ।७। प्रवामन्ते प्रस्थाप्यन्ते ऽनया पितर इति प्रवाहणी ॥ प्रजापते न त्वदेतानीति यज्ञोपवीती गार्हपत्यदेश गच्छति |८| उभयमेतद्गार्हपत्योपस्यानार्थं यज्ञोपवीतं गमनं च। तेनोपस्था- नान्तमिष्यते यज्ञोपवीतम् यदन्तरिक्षमिति पका गार्हपत्यमुपतिष्ठते । ८ । पतित्वमस्याश्चित्य शक्करीव त्वचरपरिमाणात् ॥ अपां त्वौषधीनां रसं प्राण्यामि भूतकृत गर्भ चस्वेति मध्यमं पिण्डं पत्यै प्रयच्छति । १० । द्वितीयपिण्ड श्वाच मध्यमो अभिप्रेतः न तृतीयः चतुर्थस्थानि त्यत्वात् ॥ पिण्डप्राशनं च पत्नीसंस्कारः गर्भं धत्खेति लिङ्गात् पुमांस ६ जामकेति सुते । अतः पत्नौबडवे विभज्य सवीभ्यः प्रयच्छति दानमाथावर्तते ॥