सामग्री पर जाएँ

पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापस्तम्बीये श्रौतसूचे। प्रथमस्थोपस्थानमन्त्र मन्त्रस्यादत्तिरूपश्च पितामहप्रपितामध्योमा मिश्राद्धे तथादर्शनात् तथालिङ्गविरोधाच । न च पिशब्देन चयाणामभि- धानादपि नोह इति वाच्च एकवचनान्मादशब्दसमभिव्याहाराच । तस्मादूचः। पितुरेवापस्थानं प्रथमेन ॥

ओष्मणो व्यावृत उपास्ते । १० ।

व्यावत् व्यावृत्तिः सा च उद्गच्छत ऊमणो न वान्तरस्यापि वीतास पिण्डे स्वित्युत्तरचवचनात् ॥

अमीमदन्त पितरः सोम्या इति व्यावृत्त ऊष्मण्यभिपर्यावर्तते ऽव्यावृत्ते वा । ११ ।

व्यावृत्त्यव्यावृत्त्योरन्यतो ऽवगमः पराङ्मुखत्वादात्मनः ॥

यः स्थाल्यां शेषस्तमवजिघ्रति ये समानाः समनसः पितरौ यमराज्ये । तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पतां वीरं धत्त पितर इति । १२ ।

गतः ॥

आमयाविना प्राश्यो अन्नाद्यकामेन प्राश्यो यो ऽलमन्नाद्याय सन्नाद्यात्तेन वा प्राश्यः । १३।

श्रामयाविना तु यजमानेन प्राथ्यो नावधेयः । अन्नाद्यं व्याखा वो Jलमन्नाद्याय मन्नन्नवत्तया भोजनाच पर्याप्त मन्त्रा चात् भोक्तुं चमते सत्येव भोज्ये भुक्रिशक्तिपूशून्य इत्यर्थः ॥

पूर्ववदेकस्फ्यायां त्रीनुदकाञ्जलीनुपनिनीयाञ्जनाभ्यञ्जने वासश्च त्रिरनुपिण्डं ददाति । १४ ।