पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यापस्तम्बाये श्रौतसूत्रे एकमुल्मुकमेकालभुकम् । धूयायत् धूमायमानम् ॥

दक्षिणपूर्वमवान्तरदेशं सकृत्स्प्येनोल्लिख्योदीरतामवर इत्यद्भिरवोक्ष्योल्लिखितान्ते निदधाति ८

अवान्तरदेश काणदिक ॥

यजमानो ऽत ऊर्ध्वं प्राचीनावीती कर्माणि करोति ९

अतः परं यजमानः कती भवति प्राचीनावीतौ च । अत एव वच- नादितः पूर्वमुपवीत्येव भवति ।

मार्जयन्तां मम पितरो मार्जयन्तां मम पितामहा मार्जयन्तां मम प्रपितामहा इत्येकस्प्यायां त्रीनुदकाञ्जलीन्निनयति १०

उदकपूर्णी जलिरुदकाञ्जलिः । नास्त्रौनुदकाञ्जलीन्वेद्यामासिञ्चति ॥

प्रसव्यं वा त्रिः परिषिञ्चति ११

रेवाजखिभिः परिषिञ्चति परितः सिञ्चत्येकस्कराम् ॥

त्रीनुदपात्रान्वाजसनेयिनः समामनन्ति १२

लिस्थाने पात्रमेव भवति । समानमन्यत् ॥

इत्यष्टमी कण्डिका ।