पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याधस्तम्बीये श्रौतसूत्रे थे मेक्षणे पूर्वाहुत्योः संश्लिष्टास्तण्डुलाः जीवतण्डुलवादोदनस्य तथा व्यपदेशः । तानेव दतौयामाहुतिमग्नये कव्यवाहनाय इत्या मेक्षण- ममा वृष्णी प्रहरतीत्यर्थः ॥ नैवमत्र भ्रमितव्यं वे मेक्षण इत्यादिना चतुर्युष्याहुतिस्तूष्णो कोच्यत इति तिन आहुतीरिति श्रुतेः । न च बाच्थं सन्तुः तास्तिनः प्रधानाः खिष्टकदर्थेषा चतुर्थी भविव्यतीति हतीयस्था एवाहतेस्तदर्थत्वात् । यथामिं कव्यवाहनं थजनौति प्रक- त्या ब्राह्मणं अथो यथाग्निं विष्टकृतं यजति नागेव तदिति । निगदव्याख्यातमेतद्धिरण्यकेशिनेति द्रष्टव्यम् ॥

न यमाय जुहोतीत्येके । ६।

गतः

अपयन्त्वसुराः पितृरूपा ये रूपाणि प्रतिमुच्याचरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टांल्लोकात्प्रणुदात्यस्मात् । ये देवाः पितरो ये च मानुषा ये गर्भे मम्रुरुत ये परास्ताः । य उद्धता उत ये निखातास्ते सम्यञ्च इह मादयन्ताम् । ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टांल्लोकात्प्रणुदात्यस्मात् । ये ज्ञातीनां प्रतिरूपाः पितॄन्माययासुराः प्रविष्टाः । परापुरो निपुरो ये भरन्त्यग्ने तानस्मात्प्रणुदस्व लोकादिति दक्षिणाग्नेरेकोल्मुकं धूपायद्धरति ७