पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RS ध्यापस्तम्बीये श्रौतसूत्र भवनीतकल्धे हविरुपस्तारणाभिधारणे अपि तेनैव भक्त इत्येके ।।

दक्षिणतः कशिपूपबर्हणमाञ्जन मभ्यञ्जनमुदकुम्भमित्येकैकश आसादयति २

एतानि च वेद्यामेव मादयति । दक्षिणतः स्वालीपाकस्य । कशि- पुशचनीयमुपबईणमुपधानम् ॥

अध्वर्युरुपवीती दक्षिणं जान्वाच्य मेक्षण उपस्तीर्य तेनावदायाभिघार्य सोमाय पितृपीताय स्वधा नम इति दक्षिणाग्नौ जुहोति ३

अध्वर्युवचनं पूर्ववत् । उपयोतीति प्राचौनाबौतापवादः । दक्षिणं जान्वायेति दविहोमलादेव सिद्धस्य वचन अनाच्य वेति विकल्प- निवृत्त्यर्थम् । आय संकोच भूमौ नियायेत्यपरम् । मेक्षणेनावदाय तेनैव स्वाहाकारान्तर्मन्तै हाति चोदनत्वात् अग्नये कव्यवाहनाय स्वधा स्वाहेति लिङ्गाश्च बौधायनौये च खाहाकारान्तानामेव पाठाच

यमायाङ्गिरस्वते पितृमते स्वधा नम इति द्वितीयाम् । अग्नये कव्यवाहनाय स्वधा नम इति तृतीयाम् ४

प्राति जुहोतौति शोषः ॥

ये मेक्षणे तण्डुलास्तान्हुत्वा तूष्णीं मेक्षणमादधाति ५