पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीथे श्रौतसूत्र फलौकर नाम कणापाकरणार्थस्तण्डुलावधातः । तमपि पनौ सहकरोति सकृत्तानोग्यावहत्योप्तान पुनरुपावहन्यादित्यर्थः ।।

दक्षिणाग्नौ जीवतण्डुलं श्रपयति १२

थथा ईषत्तण्डुला जीवन्ति तथा अपचत्यध्वर्युः ॥

अपहता असुरा रक्षांसि पिशाचा वेदिषद इत्यन्तरा गार्हपत्यान्वाहार्यपचनौ दक्षिणपूर्वेण वान्वाहार्यपचनं दक्षिणाप्राचीमेकस्प्यां पराचीं वेदिमुद्धत्य शुन्धन्तां पितर इत्यद्भिरवोक्ष्यायन्तु पितरो मनोजवस इत्यभिमन्त्र्य सकृदाच्छिन्नं बर्हिरूर्णामृदु स्योनं पितृभ्यस्त्वा भराम्यहम् । अस्मिन्सीदन्तु मे पितरः सोम्याः पितामहाः प्रपितामहाश्चानुगैः सहेति सकृदाच्छिन्नेन बर्हिषा वेदिं स्तृणाति १३

एकस्फ्यकता लेखेकस्मया मा बेदिर्भवति । तां पराचौमएरात्तासु- इत्य सदेवालिखेदित्यर्थः । अवाचौनेन करेणक्षमोक्षणम् ॥

इति सप्तमी कण्डिका

उत्पूतेन नवनीतेनानुत्पूतेन वा सर्पिषा स्थालीपाकमभिघार्यैकस्प्यायां मेक्षणमासाद्य स्थालीपाकमासादयति १