पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयस्तम्बीये श्रौतसूत्रे होमत्वात् । पिवयन्नवत्सर्वधर्माः प्राचौनाबौतादयः सर्वत्र । वचनात्तु विपर्ययः॥

अपां मेध्यं यज्ञियमिति समूलं सकृदाच्छिन्नं बर्हिराहरति ३

सकदेकव्यापारेण यावदेवाच्छिन्नं तावदेवाहरति समूलं च तन छेदने मन्त्रः तमिङ्गत्वात् अन्यत्रापि छेदने दृष्टविनियोगत्वाच्च ।।

सकृदाच्छिन्नानि वा तृणान्युपमूलं दिनानि ४

अथवा मूलादूध दिनान्यवखण्डितानि सकदाचिन्नाव्येव दर्भरणा- न्याहरति । दीदन्यान्यपि यज्ञियानि तणानोत्येको ।।

दक्षिणा प्रागग्रैर्दर्भैर्दक्षिणमग्निं परिस्तीर्य दक्षिणतः पश्चाद्वा दर्भान्संस्तीर्य दक्षिणाप्राञ्च्येकैकशः पिण्डपितृयज्ञपात्राणि प्रयुनक्ति स्प्यं मेक्षणं कृष्णाजिनमुलूखलं मुसलं शूर्पमाज्यस्थालीं चरुस्थालीं येन चान्येनार्थी भवति ५

पश्चात्पुरस्ताच दक्षिणायैः प्रागगरितरित्यर्थः । दक्षिणाप्राञ्चीति कोणदिगपवर्गवादः । येन चान्येनार्थी प्रयोजनवान्भवति तदपि प्रयुननि यथोपस्मरणार्थी दवों निर्वापार्थं मुझयं पात्र कशिपबई- शादीनि च ।

दक्षिणतः प्रागीषं व्रीहिमच्छकटमवस्थितं भवति ६