पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बोये श्रौतसूत्रे।

बर्हिरसि देवंगममित्यासन्नमभिमन्त्रयते ३

गत:

देवंगममसीत्यनधो निदधाति यथा प्रागुपसादयेत्

।४। यथोपमादनकाले प्राचीनमुपसादयितुं योग्यं भवति तथा निदधाति । बहिषस्खाहरणे ऽनुग्रहमाह बौधायनः श्राहतं वा यजुषा करोतीति । कात्यायनश्चाह खातलूनच्छिन्नावहतपिष्टदुग्धदग्धेषु यजुष्क्रियासंभ- बादिति ॥

या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा । तासां पर्व राध्यासं परिस्तरमाहरन् । अपां मेध्यं यज्ञियं सदेवं शिवमस्तु मे । आच्छेत्ता वो मा रिषं जीवानि शरदः शतम् । अपरिमितानां परिमिताः संनह्ये सुकृताय कम् । एनो मा निगां कतमच्चनाहं पुनरुत्थाय बहुला भवन्त्विति परिस्तरणानामधि निधान्याच्छेदनी संनहनीति यथालिङ्गम् ५

यथासंख्येनैव सिद्धे यथालिङ्गवचन लिङ्गविनियोगमासां दर्शयितुं विस्वार्थ वा ।।

खादिरं पालाशं वैकविंशतिदारुमिध्मं करोति ।६।

दार्बभिन्न काष्ठं सः शकलान दारूणि वेति दर्शनात् । श्राह्मणे बेकविंशतिरिभदारूणि भवन्तौति प्रकृत्य पञ्चदशे मदारूण्यभ्वादधाति