पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रोम् ॥ एवं दर्शपूर्णमासी व्याख्यायानन्तरं सर्वश्रौनकाण्डोपकारकं सर्वप्रथ मभावि चाग्न्याधेयमारभते ॥ अग्न्याधेयं व्याख्यास्यामः । १ । अनेराधेयमग्न्याधेयम् । अत्यन्युटो बहुलमिति भावे या द्रष्टव्यः । अग्निराधेयो ऽम्झिन्कर्मणोति वा महुव्रीहिः ॥ तच्चोपनयनादिवदा- पुरुषस्य । कुतः । कृष्णकेशो stereutaति श्रुतेः सतिष्य- व्यग्न्याधेषमनिहाचं दर्शपूर्णमासावित्यावश्यकेषु पुरुषसंस्कारेषु घाटात अवश्यं च ब्राह्मणोऽभिमाधौतेति वसिष्ठवचनात् आचार्येणाय द्राणामदुष्टकर्मणामुपायनं वेदाध्ययनमग्न्याधेयं फलवन्ति च कमी- शौति दिजातीनां वर्णधर्मवेनामुक्रमणात् मनुनायनाहितामिता स्त्रैष्यमिति तदक्रियायामुपपातकवेन स्मरणाच । तस्मासिद्धभावश्य- कमग्न्याधेयमिति ॥ चाह बौधायन: अनौनाधान्यमानः प्राज्यमा- मानं कुर्वीत येनास्य कुशलं स्यान्तेन कुशलं कुर्वीतेति । तथेोक- मात्मनः पुरचरणमिति च ॥ यो अऋत्यः शमोगर्भ आरोह वे सचा । तं ते हरामि ब्रह्मणा यजियैः केतुभिः सहेति शमीगर्भस्या- वत्स्यारणी आरति ॥ २ ॥