पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बोये श्रौतसूत्रे

पृथिव्याः संपृचः पाहीत्यनधो निदधाति ।१ ।

अनधः अभूमौ ।

अयुजा मुष्टींल्लुनोति ।

अयुजः अयुग्मान् ॥

तथा निधनानि।३

निधनानि मुटौनां राशयस्तानि चायुजि भवन्तीत्यर्थः ।।

तेषां प्रस्तरोऽयुगर्थ इत्येके । ४ ।

तेषां मुष्टौनां निधनानां च प्रस्तरेण विनायुग्मानां सतां प्रस्तरो ऽयुगर्थः अयुग्भावार्थः न तु प्रस्तररहितानामयुक्त्वमित्येके मन्यन्ते । तथा वयमिति भावः । कथं तईि. यूयं मन्यध्ये। अत शाह ।।

प्रस्तरे याथाकामी ।।

प्रस्तरे अयुगर्थवं प्रति याथाकामी याथाकाध मह वा प्रस्तरेणा- युवमस्तु विना वा प्रस्तरेण । न त्वेकतरपक्षनिधारणाय प्रभवामः अयुगायुङ्गान्गुष्टी नातौति श्रुत्यर्थस्य विशयित्वादिति भावः ॥ भार- साजचाह प्रस्तरो युग्म इत्येकेषामयुग्म इत्येकेषामिति ॥

यदन्यत्परिषवणादुत्सर्जनाच्च तत्सर्वत्रावर्तते।६।

सर्वत्र भवेधु मुष्टिषु द लम्भनाद्यावर्तते.

प्रस्तरमेव मन्त्रेण दाति तूष्णीमितरदिति वाजसनेयकम्।

इतरन्मुष्टिजातम् ॥