पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रतम्बीये तसूत्रे । पर्वणि निदधाति यत्यरुषि दिनं तद्देवानामिति श्रुतेः पर्व ते राध्यासमिति सन्त्रवर्षीच || आच्छेत्ता ते मा रिषमित्याच्छिनत्ति । १४ । गतः ॥ सनखं मुष्टिं सुनोति । १५ । संनखं संगताङ्गुल्यङ्गुष्ठनखं तावत्प्रमाणमित्यर्थः ॥ सुनोति लुनाति विकरणव्यत्ययः ॥ स प्रतरः | १६ | ऽयं प्रथमलूना मुष्टिः प्रस्तरः समाख्यायते ॥ कुल्मिमात्र रनिः प्रदेश ऊर्वस्थि जान्वस्थि सु ग्दण्ड इति वा तिर्यकप्रमाणानि । १७ । कुल्भिगीवालः । अरनिर्चस्तस्य पूर्वभागः / आदेश: प्रदेशिन्यङ्गुष्ठयो- रायामः । स चात्र सामर्थ्यात्मनखबन्दमण्डलीकृतः संनिवेशो गृह्यते ॥ अररत्न प्रदेश इति पठतां विसर्जनौयः प्रमादभ्रष्टः ॥ ऊरोरस्थि ऊर्वस्थि । तिर्यक प्रमाणपनि स्थौल्यप्रमाणानि । तानि च संनख- प्रमाणे विकल्पते ॥ इति कण्डिका ।