पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे । इन्द्रं निगभेषूपलक्षयेदिन्द्रयाजिनो महेन्द्र महेन्द्र- याजिनः । ७ । निगम्यन्ते येषु इविषः प्रतियोगित्वेन रूपेण देवतास्ते मन्त्रा निगमाः । तेषु मांनाय्यदेवता । निगमे इन्द्रयाजिनो यजमानस्खेन्द्र निर्दिशेत महेन्द्रयाजिनो महेन्द्रमित्यर्थः ॥ एतेन चानन्त प्रयोगfneur- वन्ये व कामधुन इत्यादयो निगमा व्याख्याता अवन्ति । एतदेवा- भिप्रेत्य निगनेस्थिति बहुवचनं कृतमिति वेदितव्यम् || शुद्धा अपः सुप्रपाणे पिबन्तीः शतमिन्द्राय शरदा दुहानाः। रुद्रस्य हेतिः परि वो वृणक्किति प्रस्थिता अनुमन्त्रयते । ८ । अनुपूर्व उभिपूर्वश्च मन्त्रयतिस्तदभिसंधाय मन्त्रोच्चारणे प्रयुज्यते अभिपूर्वस्तु तस्मिन्नेवाभिमुख्याधिक इत्यपरम्॥ अत्र केच्छितमि न्द्रायेति निगमे महेन्द्रयाजिनो महेन्द्रोपलक्षणं निषेधन्ति। तत्तु न मुख्यामहे पूर्वस्वत्रविरोधात्। न चास्यानिगमत्वं शङ्खनीय इन्द्राय दुहाना इति दोहदेवतासंबन्धस्य प्रयोगसमवायिनो ऽभिधानात् तथा च शतमिन्द्रायेति प्रकृत्याह भारद्वाजः महेन्द्रायेति वा यदि महेन्द्रयाजी भवतीति ॥ ध्रुवा अस्मिन्गे।पतौ स्यात बच्चीरिति यजमानस्य ग्रहानभिपर्यावर्तते । ही अभिपयावर्तते अभिमुखः प्रतिनिवर्तते