पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

· आपस्तम्बीये श्रौतस्त्रे येषामवरे स्थाने पसंख्या भवति ते षडवरायाः । तानपाकरोति मातृभ्यः पृथक्करोति मातृसंगतानां वत्सानां युगपदरपाकरणीयत्वात् ॥ प्रतिवस मन्त्रावृत्तिः । बहुवचनं तु मन्त्रगत सुपरवमन्त्री चं द्रष्टव्यम् दर्भैदर्भपुञ्जीलैवा । ३ । पुच्चोल स्वम्बः ॥ देवो वः सविता प्रार्पयत्विति शाखया गोचराय गाः प्रस्थापयति । 81 गावो यत्र चरन्ति तस्मै देशाय यथासमाजातेनाघशंसान्तेन मन्त्रेण गाः सर्व निष्कासयति ॥ वत्सविनाकृतानां गवां युगकनिष्का- मनत्वान्नावृत्तिर्मन्त्रस्य । यत्र तु न शक्यते तत्रावृत्तिः ॥ प्रस्थितानामेकां शाखयोपस्पृशति दर्भेर्दर्भपुण्झीलै- वी । ५ गतः ॥ अथ देवो व इत्यादी प्रस्थापनमन्त्रस्यैव शखान्तरीयो कौचित्याठविकारौ दर्शयति !! आप्यायध्वमनिया इन्द्राय देवभागभित्येके समाम- नन्ति । महेन्द्रायेत्ये के। ६ । आप्यायध्वमनिया देवभागमिति यथासमाजातेन पाठन दिप्रकारे ऽयं पाठो विकल्पते ॥ श्रथानयोः पाठयोः सर्वत्र तुल्यवडिकल्यै प्राप्ते व्यवस्थासिद्ध्यर्थं सामान्येनेन्द्रमहेन्द्र शब्दयोर्देवतापरयोः प्रयोगव्यवस्था- भाई ॥