पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

582 श्रीराम।।मैचिद्वृत्तिसहित बूर्तस्वामिभाष्यभूषिते [खं, २३, सू ३ (भा) उभयत्र सारस्वतान्वारम्भणया चतुर्होतारोऽन्वाधान च पौर्ण- मास्यामेव कर्तव्यम् । प्रधानकालासक्तेः ॥ [सारस्वतहोमादेः पौर्णमासीकर्तव्यतासमर्थनम् ] (इ) सारस्वता - कर्तव्यम् - लासक्तेः – अस्यार्थ- सारस्वतहोमयो- स्तावत् दर्शपूर्णमासावालभमान एतौ होमौ पुरस्ताज्जुहुयादिति दर्श- पूर्णमासारम्भसयोगः | अन्वारम्भणीयायाश्च शाखान्तरे आरप्स्यमान- पदसमभिव्याहरात् । अस्माक च सारस्वतहोमानन्तरं आमावैष्णव- मेकादशकपालं पुरस्तान्निर्वपेदित्यादिना'ऽऽरम्भसयोगः । चतुर्होतुरपि दर्शपूर्णमासाबालभमानः चतुर्होतार मनसाऽनुद्रुत्येत्यारम्भसयोगः । अतस्त्रयाणामपि दर्शपूर्णमासारम्भार्थता । तथा आहवनीये सग्रह हुत्वा दर्शपूर्णमासावारभते इति । अथशब्दप्रयोगाप्रयोगात् चतुर्होतृदर्श- पूर्णमासयोरेकप्रयोगत्वाभावात् आहवनीयभेदात् बहिःप्रयोज्याश्चतुर्होतृ- पर्यन्ता दर्शपूर्णमासयोरुपकारका दर्शपूर्णमासाधिकारिपुरुषस्य योग्यतापादनद्वारेण । अत एव सर्वदर्शपूर्णमासोपकारकत्वात्सकृदेवादी कर्तव्या सकृत्सस्कृतस्य पुनस्सस्कारानपेक्षणात् ॥ [ दीक्षादेरपि पुरुषसंस्कारस्यसकृदेवसोमादौ कर्तव्यतापत्तिपरिहारौ] ननु दीक्षादीनामपि पुरुषसस्कारत्वात् सकृदेव प्रथमसोमादौ कर्तव्यता स्यात् 'न, द्विषा हि पुरुषसस्काराः ! तत्र प्रयोगाङ्ग- कर्तृसस्काराः केचित् ते प्रतिप्रयोगमावर्तन्ते, ये प्रयोगाभ्यन्तरे विघीयन्ते । अधिकारिसस्काराः केचित् ते सक्कदेवादौ क्रियन्ते ये बहि. प्रयोगाच्चोयन्ते तस्मात्सारस्वतादीना दर्शपूर्णमासापेकार- 1 न्तरप्रारप्स्य - ख ग. 2 त्यादिविघानाचा - ख. ग ,