पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खं. २३, सू ३.] आपस्तम्बश्रौतसूत्रे पञ्चमे प्रश्ने सप्तम पटल' 583 (भा) उपदेशो हिरण्यकेशिमतिश्च सारस्वतान्वारम्भणीये चतुर्दश्याम् पौर्णमास्यां चतुर्होताऽन्वाधान च तस्य प्रातःकालनियमात् || । (बू) कत्वात् कालान्तरानुपदेशाच्च प्रथमपौर्णमास्या पञ्चदश्यामेव कर्तयाः ः । पुनः पुनः प्रणीतेऽसौ कार्यभेदात् । किं च अन्वारम्भणीया चतुर्होत्रोः आरप्स्यमानपदसमभिव्याहरादद्यतनविभक्तियोगात् पौर्णमास- समानाहस्सम्बन्धावगमाञ्च पञ्चदश्यामेव प्रयोग । तथा सरस्वत होमौ हुत्वाऽन्वारम्भणीयामित्यानन्तर्यावगतेः तावपि पञ्चदश्यामेव । अतश्चतुर्हो त्रन्तैर्योग्यत्वे सिद्धेऽनन्तरमन्वाघानम् । अस्मिन् पक्षे प्रथमपौर्णमास्या प्रातरन्वाधानाभावेऽपि न विरोधः ॥ [सारस्वताम्वारम्भणीये चतुर्दश्यामवेत्युपदेशमताशयः] उपदेशो हिरण्यकेशि - कालनियमात्–प्रातरन्वादधातीति नियमात् चतुर्होतुश्बाद्यतनविभक्तियोगाच्च पञ्चदश्यां मातश्चतुर्होत्रादि । अन्वारम्भणीयायास्त्वद्यतन विभक्तियोगेऽपि अन्वाधानस्य प्रातःकाल- विरोधात् चतुर्दश्या सारस्वतान्वारम्भणीये । अस्मिन्दा चतुर्दश्यजसपूरणी तदा अजसेष्वेव सारस्वतान्वारम्भणीये । यथा सोमाधाने अजसे सभारयजुरादयः ॥ [सारस्वतहोमेन दर्शपूर्णमासकालबाधशङ्कापरिहारौ] ननु यदीष्ट्यादिवाक्येन इष्टिसामान्यादाग्रयणादिवत् प्रकृतेः प्रातः कालबाघ एव स्यात् । अद्यतनविभक्तिश्चानुगृह्येत । दर्शपूर्ण- मासावालभमान एतौ होमाविति नैतत् ; इष्टि पश्वादीना दर्शपूर्ण- मासतुल्यप्राधान्यात् प्रकृतिकालमध्ये विधिबलाच्च तैः कालोपरोधो युक्त. सारस्वतादीनां तु दर्शपूर्णमासयोरेबानत्वात् तयोरनुपरोघे ना- नुष्ठेयानीति । प्रधान सगुण कर्तुं झङ्गान्यनुष्ठीयन्ते । अद्यतनविभक्तिश्च तत्सामीप्येऽप्युपपद्यते वर्तमानसामीप्ये वर्तमानवद्वेति ॥ 1 त्रन्ते-ख. ग. 2 पशूना- घ. 3 चेनप्रयोक्तव्यानीति-घ •