पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

vi प्रोक्षति' इति दृश्यते । एनमित्यस्य विवरणतया यूपशब्दः प्रयु- ज्यते पतञ्जलिना ॥ कोऽत्रापस्तम्बः कदाऽसौ ? पतञ्जलिना कल्पसूत्रवाक्यानामृषिवाक्यत्वोक्तेः पाणिनिनापि पुरातनप्रोकतया कल्पसूत्राणामनुवादात् ऋषिकुलस्य कल्यादि ४५० वर्षान्ततायास्सिद्धत्वात् ऋषिप्रणीतानां कल्पसूत्राणां कल्या- दितः ४५० वर्षान्ता प्राचीनता दृढं निश्चीयत इति तु भगवद्दत्तः । याज्ञवल्क्यश्च - - यमापस्तम्बसंवर्ताः कात्यायन बृहस्पती । पराशरव्यासशङ्खलिखिता दक्षगौतमौ ॥ शातातपो वसिष्ठश्च धर्मशास्त्रप्रयोजकाः ॥ इति स्वप्रवर्तनीये धर्मनिबन्धे प्राचीनधर्मनिबन्धप्रवर्तकान् स्मरन् तेष्वन्यतमं कलयत्यापस्तम्बम् । अत्राह बोधायनकल्पव्याख्याता यज्ञेश्वर:- मेधां बोधायनो वो विनरतु सहितप्पष्टिसाहस्रशिष्यैः यस्यापस्तम्ब एकाधिकशतयजुषां पारगो मुख्यशिष्यः । सूत्रं प्रायुत नैकक्रमविधिनिपुणाध्वर्युनानाप्रयोग- व्यक्तिशानोपयुक्तस्फुटमृदुगहनप्रौढसन्दर्भगर्भम् ॥ कल्पामृतं क्षितिसुरप्रकराय योऽदात् वेदाम्बुराशिमधिमथ्य निजप्रभावात् । बोधायनाय मुनिवन्दितपादपद्म- द्वन्द्वाय कण्वतनयाय नमोऽस्तु तस्मै | इति । प्रायश्चित्तविचिन्तननाम्नि निबन्धे च- बोधायनं जैमिनिं च कौषीतक्याश्वलायनौ । वाधूलकापस्तम्बादीन् नौमि शाखाप्रवर्तकान् ॥ इति शाखाप्रवर्तकेष्वापस्तम्बगणनां दर्शयति । बहुचशाट्यायनि- • पैङ्गिछन्दोगादि पदपुरस्कारेण ब्राह्मणानां प्रमाणतां प्रदर्शयन् भगवानापस्तम्बः शाखाविभाजकाद्भगवतो वेदव्यासादनन्तरका लिक इत्यप्यध्यवसातुमस्त्यवसरः । $