पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


प्रायोऽनृषयः क्कचिदेव च श्रुतर्षयश्च भाविन इति भगवता आपस्तम्बेन न्यबन्धि धर्मेषु , “नियमेषु तपश्शब्दः, तदंतिक्रमे विद्याकर्म निस्स्रवति ब्रह्म सहापत्यादेतस्मात् । कर्तपत्यमनायुष्यं च । तस्मादृषयोऽवरेषु न जायन्ते नियमातिक्रमात्। श्रुतर्षयश्च सम्भ वन्ति केचित् कर्मफलशेषेण पुनस्सम्भवे यथा श्वेतकेतुः' इति १-५-५ , १-६ सूत्रे । कर्तपत्यंनरकपातहेतुरिति तत्र हरदत्तः। कल्पानां पाणिनिपूर्वकालिकत्वम् परमर्षिप्रणीतानि कल्पसूत्राणि ऋषिभिरेव प्रचारमासेदिवां- सीति भगवतः पाणिनेर्वचसा प्रतीमः। यतः ‘तेन प्रोक्तम् 'इति प्रवचनार्थकपदेन प्रक्रम्य तित्तिरिप्रभृतीन् वेदप्रवकृनिव कल्प प्रवह्नपि ‘पुराणप्रोक्तेषु ब्राह्मणकल्पेषु ’ इति स्मरति । यद्यपि ‘पुराणानि कल्पान्’ इत्यन्नायमान इव कल्पशब्दस्त्रे ऽपि प्रयोगदर्शकवेदभागपर इति तस्य च प्रवचममैष्याम्नाय इव स्वारसिकमिति च वक्टुं शक्यते , तथाऽपि ‘पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ’ इति सूत्रे कल्पसूत्रनिबन्धानुवादिनो मीमांसा दर्शनप्रवर्तकस्य जैमिनेराचार्यं बादरायणं निर्दिशन् कल्पसूत्र प्रवचनपरम्परायाः स्वप्राचीनतां बाढमेवानुमन्यते पाणिनिः। काश्यपकौशिकग्रहणं कल्पे नियमार्थम् ’ इति वदन् वार्ति- ककारकात्यायनश्च कण्ठत एवाह तत्प्रचीनताम् । कल्पसूत्रनिबन्धेषु च आपस्तम्बीयोऽप्यन्यतमः प्रथते। निब धोऽयं पाणिनेरतिप्राचीन इति निश्चिते भाष्यकृत्सम्मतिं दर्श यामः ; –‘तदस्यास्त्यस्मिन्नितिमतुप् ’ इति सूत्रे ‘सन्मात्रे च ऋषिदर्शनात्' इति वार्तिकम् । तत्र च भाष्यम् ; सन्मात्रे च श्रऋषिर्दर्शयति मतुपम् ‘यवमतीभिर्युपं प्रोक्षतीति’ इति । इदं च वाक्यम् आपस्तम्बकल्पे सप्तमप्रभं नवमखण्डे नवमसूत्रे ‘अग्रेणा वटं प्रवे यूपं निधाय’ इत्यारभ्य ‘यूपं प्रक्षाल्याथैनं यवमतीभिः 1 जैमिनेः कल्पनिबन्धानुवादि चाने व्यक्तं भविष्यति ।