पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वं १७, सू ८ ] आपस्तम्बश्रौतसूत्रे पञ्चमे प्रश्ने पञ्चम पटल बोधायनमतिश्च । 1 (भा) अकाम्यत्वाच्च पयसा होम | [अग्निहोत्रस्थाने अनुकल्प.] अपि वा द्वादशगृहीतेन स्रुचं पूरयित्वा प्रजा पतिं मनसा ध्यायन् जुहोति । साऽग्निहोत्रस्य स्थाने भवति ॥ ७ ।। ७ ।। १०५० ।। 2 [ अस्या. पूर्णाहुते. स्थानी प्रजापतिध्यानाकारश्च] (भा) साङ्गस्य स्थाने पूर्णाहुति । प्रजापतये स्वाहेति मनसा । 3 यास्ते अझै घोरास्तनुवस्ताभिरमुं गच्छेति यजमानो द्वेष्याय प्रहिणोति ताभिरेनं ' नितमयति । आरण्येऽनुवाक्या भवन्ति ।। ८ ।। ८ ।। १०५१ ॥ सप्तदशी खण्डिका ॥ (वृ) बोधायनमतिश्च – साङ्गस्य प्रधानस्य तूष्णीकत्वमिति बोघा- यनमतिश्च सर्वं तूष्णीमिति ॥ 547 [पयोहोमत्वे प्रमाणम्] अकाम्य – होमः – पयसा नित्यहोम इत्याश्वलायनमतात् तद्वि- कारत्वाच्चास्य || [साङ्गस्थानिकत्वे हेतुः] साङ्गस्य स्थाने पूर्णाहुतिः - सामिहोत्रस्य स्थाने इति विधानात् । तूष्णीमग्निहोत्रमितिवत् प्रजापतिं मनसा ध्यायन् अभि होत्र जुहोतीत्यवचनात् ॥ [चतुर्थ्यन्तनिर्देशे हेतुः] प्रजापतये स्वाहेति मनसा – प्रजापतेर्देवतात्वान्मनसा चतु- र्ध्यन्तनिर्देशः ॥ 1 कामत्वा-ख ग. 2 सा आहुतिः साङ्गस्याग्निहोत्रकर्मण स्थाने भवति 8 निगमयति – क पराभावयति- ख ग्लपयति शेष पूर्ववत् (रु). 4 तीति वचनात् - ग.