पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

544 श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [ख १७, सू ६. (भा) गार्हपत्ये तिस्र आषाय शमीमयीः । इतरेष्वपि तिस्रस्तिस्र आदधाति ॥ 3 (सू) 8 एवं नानावृक्षीयाः । प्रेो अग्ने दीदिहि पुरो न इत्यौदुम्बरीं समिधमादधाति । विधेम ते परमे जन्मन्नग्ने इति वैकङ्कतीम् । तां सवितुर्वरेण्यस्य चित्रामिति शमीमयीम् ।। ५ ।। ५ ।। १०४८ ॥ [ एवं शब्दपुनस्समिच्छब्दयोराशयः] (भा) नानावृक्षीया अपि घृतान्वक्ता जातिभिन्ना अपि तिसृभि स्तिस एव एकैकस्मिन्नाधीयन्ते । पुनस्समिद्वचनाच प्रकृष्टमिन्धन याः कुर्वन्ति शुष्कास्ता आधीयन्ते ॥ 5 6 (सू) " ततस्तूष्णीमग्निहोत्रं ' कुर्वान्त ॥ ६ ॥ ६ ॥ ॥ १०४९ ॥ [ समित्पदस्य यौगिकार्थग्रहणे न्यायः] (वृ) एवमिति-धीयन्ते – एव नानावृक्षीया इति वचनात् । पुनस्समि- आधीयन्त इति – औदुम्बरी समिधमिति पुनर्व- चनात् समिन्धनसमर्थाः शुष्का आधेयाः । तदभावे शुष्का यज्ञीयाः नार्द्राः । अर्थद्रव्यविरोघेऽर्थो बलीयानिति || 3 1 मयी इतरे- ख ग घ. 2 मय्य इतरेष्वपि तिस्त्रस्तिस्त्र अदधाति कु च. 8 एवमितिपूर्ववत् । घृतान्वक्तास्तिस्रस्तिस्र एकैकस्मिन्नित्यर्थ (रु). 4 स्तिस्र एकैक -ख. ग. घ 5 पूर्वाहुतिरेव तूष्णीम्, सर्वमन्यत्समन्त्रकम् सर्वं तूष्णी क्रियेतेति क्वचिद्वयक्तदर्शनात् प्रातर्होमधर्मकं च कालसामान्यात् । अयथापूर्वमाहती जुहोतीति लिङ्गाश्च । प्रातरग्निहोत्रस्यातेति सत्याषाढभारद्वाजौ । बोधायनमताच सर्व तूष्णीं उभयधर्मकं च । यथा सर्व तूष्णीमनुक्रामन् उच्च मार्ष्टि अव च माष्ठति । तथा उभे एवैते सायंप्रातरनिहोत्रे प्रतिजुह्वन्मन्यत इति च पयसाऽत्र होम | काम्य- 6 8 जुहोति क त्वाद्दृव्यान्तराणाम् । अज्ये न वेति तु बोधायन (रु). नेदमग्निहोत्रम्, अपि तु कर्मान्तरमाधानाङ्गम् | अग्निहोत्र वज्जुहोती त्या ध्वर्यवेमव सर्व मन्त्रवर्जम् (हिर. श्री. व्या. वैज) ,