पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०, सू_१.] आपस्तम्बश्रौतसूत्रे पञ्चमप्रश्ने तृतीयःपटल उदेयने अधिमातुः पृथिव्या विश आविश महतः सधस्थात् । आखुं त्वा ये दधिरे देवयन्तो हव्यवाहं भुवनस्य गोपामित्याखुकरीषम् । यत्पृथिव्या अनामृतं संबभूव त्वे सचा । तदग्नि- रग्नयेऽददात्तस्मिन्नाधीयतामयम् इति गार्हपत्या- यतने वल्मीकवपा निवपति ॥ ८ ॥ ८ ॥ ९७८ ।। यदन्तरिक्षस्येति दक्षिणामे: यद्दिव इति पूर्वेषु ॥ ९ ॥ ९ ॥ ९७९ ॥ यदन्तरिक्षस्यानामृत यहिवोऽ नामृतमित्यनुषङ्गः ॥ उर्मिरागात्साम्राज्याय उत्समुद्रान्मधुमा प्रतरां दधानः । अमी च ये मघवानो वयं चेषमूर्ज मधुमत्संभरेमेति सूदम् । इयत्यग्र आसीदिति वराहविहतम् ।। १० ।। १० ।। ९८० ॥ आपो देवी प्रथमाना पृथग्यदेवैसा व्यसर्पो महित्वा । अदृ'हथाश्शर्कराभिस्त्रिविष्टप्य जयो लोकान् प्रदिशश्चतस्र इति शर्कराः । 'द्वेष्यं च मनसा ध्यायति । ११ ।। ११ ।। ९८१ ॥ 2 3 नवमीखण्डिका (भा) (सू) (सु) ऋतं स्तृणामि पुरीषं पृथिव्यामतेऽध्यग्निमादघे सत्येऽग्निमादध इत्यायतनेषु संभाराननु व्यूहति 511 ॥ १ ॥ १२ ॥ ९८२ ।। 1 अनामृतमित्योदरुभयत्रानुषङ्ग । इमौ तु मन्त्रौ 'तद्वायुरप्रयेऽददात्तदा- दित्योऽग्नयेऽददादिति विकृतरूपौ पठितौबोधायन (रु) 2 अदो-ख. 3 निर्वपन् द्वेष्य मनसाध्यायति । पञ्चसंभारपक्षे ताम्म्राणा शकलान तूष्णीं निवपनम् (रु). 4 अनुव्यूहति प्रथयति (रु)