पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/६४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

508 (भा) (सू) श्रीरामाग्निचिद्वृत्तिसहितधूर्तस्वामिभाष्यभूषिते [खं ८, सू. ८ तपने कृतोऽग्नेरुद्वापनम् । । V अनी रक्षा सि सेघति शुक्रशोचिरमर्त्यः | शुचिः पावक ईडय इत्यरणी अभिमन्त्रय मही विश्पली सदने ऋतस्यार्वाची एतं धरुणे रयी- णाम् । अन्तर्वत्नी जन्यं जातवेदसमध्वराणां जनयथः पुरोगामित्यरणी आडियमाणे यजमानः - प्रतीक्षते ॥ ६ ॥ ३४ ॥ ९६८ ।। 1 दोह्या च ते दुग्धभृच्चोर्वरीतेते भागधेयं प्रय- च्छामीति यजमानाय प्रयच्छति ॥७॥ ३५॥९६९॥ आरोहतं दशतं शक्वरीममर्तेनाम आयुषा वर्चसा सह | ज्योग्जीवन्त उत्तरामुत्तरा समाम् दर्शमहं पूर्णमासं यज्ञं यथा यजा इति प्रतिगृह्यत्यिवती स्थो अग्निरेतसौ गर्भं दधातां ते वामहं ददे । तत्सत्यं यद्वीरं विभृथो वीरं जनयिष्यथः । ते मत्प्रातः प्रजानिष्येथे ते मा प्रजाते प्रजन- यिष्यथः । प्रजया पशुभिर्ब्रह्मवर्चसेन सुवर्गे लोके इति 2 प्रतिगृह्याभिमन्त्रयते यजमानः ॥८॥ ॥३६॥९७०॥ अष्टमी खण्डिका [उद्वासन पदार्थः] (वृ) तप ने कृते - अग्नेरुद्वापनम् – उपशमनं लौकिकस्य । वैदिकस्य अदृष्टरूपस्य तनने समारूढत्वात् ॥ 1 प्रथम निष्टते अभिमन्त्रथ तत आह्वियमाणे प्रतीक्षते (रु) 2 पुन प्रति- गृह्येति वचनमानन्तर्यार्थम्, माभूदवश्यकृत्यैरप्यभिमन्त्रणस्यव्यवाय इति (रु).