पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

xl विद्यया करोति तदेव वीर्यवत्तरम्' इति श्रुतेः । 'यज्ञेन-स्सचन्ते' 'एष व साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीपति' इत्या- दिभिश्च कर्मसाधनत्वावगतेः । हिरण्मयशकुनिर्ब्रह्म नाम येन सूर्यस्तपति तेजसेद्धः पिता पुत्रेण पितृमान् योनियोनौ | नावेदविन्मनुते तं बृहन्तम् । सर्वानु- भुमात्मानं संपराये' इति ब्रह्म प्रशस्य 'ब्रह्मणस्सायुज्यं सलोकतां यन्ति य एतदुपयन्ति ओम्' इति विश्वसृजामयनस्य ब्रह्मप्राप्तिसाध नत्वदर्शनाञ्च | 'तस्यैवात्मा पदवित्तं विदित्वा न कर्मणा लिप्यते पापकेन' इति च । 6 प्रत्युत विद्याया भगवतोक्ताविद्याकार्यत्वं गम्यते । अतः :- यथा वा एप रथोऽन्यतरेण चक्रेण न वर्तते यथा वा पक्षणकेन पक्षी एवं विद्याकर्मणी पुरुषस्य' इति ताण्डायानिश्रुत्या परम्पर- व्याघातपरिहाराय समुच्चिते एव विद्याकर्मणी । स्मृतिरपि,- इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः । ब्रह्मविद्यामधिष्ठाय तर्तु मृत्युमविद्यया ॥ इति । तथा च भगवतोक्तं मतान्तराण्युपन्यस्य, कर्तव्यानीति में पार्थ निश्चितं मतमुत्तमम् । इति अलं विस्तरेण " इति । , - - यतिधर्मसमुच्चये यादवप्रकाशैरप्यभिहितम्, 'कर्मयोगो नाम ज्ञानकर्मसमुच्चयः, ततो मोक्षः' इति । एवम् (५-४-४) तस्य सर्वत्रावस्थानात्' इति भाष्यम् । अत्र वृत्तिः ;- तस्य ब्रह्मरूपत्वेन सर्वपदार्थेष्ववस्थानात्, इति । इष्टिहौत्रकल्पे,–'एष वै देवानां महिमा यद्विष्णुः परमेष्ठी इति सर्वदेवतान्तर्यामिण विष्णुम्' इति । (५ प्रश्ने) आधाने अश्वस्य कर्णे वाचनीयस्य मन्त्रस्य ' वाजि ग्रहणात् कमण्डल्वादौ निवृत्तिः' इत्युक्ता 'अनिवृत्तिरुपदेशः' इति भाष्यम् ।