पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

● XXXIX मीमांसकाः । अबन्धनात्कामस्य न काम इत्युपदेशः । यत्रापि बन्धः, अकामहतश्रुतस्य प्रतिषिध्यते; व्यासमताञ्च इति धूर्त- स्वामिभाष्यम् । अत्र वृत्तिः,' स्वर्गकामं मीमांसकाः -अश्रुतफलत्वात् विश्व- जित्पितृयज्ञादिष्विव स्वर्गफलता । , अबन्धनात्कामस्य न काम इत्युपदेशः, - सूत्रकारेणाबन्ध- नात्कामस्य न फलकल्पना | 6 यत्रापि बन्धः, - सूत्रकारेण दर्शपूर्णमासादिषु । तत्राप्यकामहतश्रुतस्य मुमुक्षोः प्रतिषिध्यते फलम् ' इति । अस्यार्थः;- ज्ञानकर्मसमुच्चयान्मोक्षसिद्धेः कर्मसु फलेच्छा न कर्तव्या श्रोत्रियस्य चाकामहतस्येति । कामिनो मोक्षाभावात् । स्वर्गादिश्रवणेऽपि मुमुक्षोस्तदिच्छयाऽनुष्ठानमयुक्तम् । अकामहतश्रुतस्य -- अकामहत इति श्रुतस्येत्यर्थः । व्यासमताच्च, –' कामात्मता खल्वपि न प्रशस्ता ' इति । भगवद्गीतासु च - 'सङ्गं त्यक्ता फलं च ' इति वहुशो दर्शनात् ननु ' न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः नास्त्यकृतः कृतेन ' इत्यादिभिश्च श्रुतिस्मृतिभिः कर्मणो मोक्ष- साधनत्वं प्रतिषिध्यते तथा 'तमेव विदित्वाऽतिमृत्युमेति ' 'ब्रह्म- वेद ब्रह्मैव भवति ' 'तमेवं विद्वानमृत इह भवति' इत्यादिभिः ज्ञानसाधनत्वावगमात् । 'अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतम श्रुते' इत्यादिभिः कर्मणो विद्यायाश्च फलभेदोऽवगम्यते, अतो न समुश्चिते ज्ञानकर्मणी मोक्ष साधनमिति | , नैतत्सारम्, – श्रुतिस्मृतिनियन्त्रणां महतीमसहमानानां स्वैरा- चारसमुत्सुकानां वैदिकगर्हाभयाद्वेदवाक्यानि यथातथमुदाहरतां परलोकभयरहितानां मतमिदम्, तथाहि; यत्तावत् कर्मणो मोक्षसाधनत्वप्रतिषेधकवाक्यानि, तानि केवलकर्मविषयाणि : विद्यासहितस्यैव वीर्यवत्तरत्वात् । 'यदेव